________________
आचारदिनकरः
॥२०१॥
प्रथिताक्षमालया। तमेव देवं प्रणमामि सादरं पुरोपचीर्णेन महेन सादरं ॥३॥ कलापमुक्तवतसंग्रहक्षमः कलापदेववासुरवन्द्रितक्रमः। कलापवादेन विजितो जिनः कलापमानं वितनोतु देहिषु ॥ ४॥ निदेशसंभावितसर्वविष्टपः सदाप्पदंभावित दस्युसंहतिः। पुराजनुर्भावितपोमहोदयःसनामसंभावितसर्वचेष्टितः ॥५॥" वंशस्थ वृत्तानि । अनेन । “विभूषणोऽप्यन्दुतकान्तविभ्रमः सुरूपशाली धुतभीरविभ्रमः। जिनेश्वरो भात्यनघो रविभ्रमः प्रसादकारी महसातिविभ्रमः॥१॥" अनेन वृत्तेन विम्बात्पुष्पलंकारावतरणम् । पुनः श० ऊ० धूपोत्क्षेपणं ॥८॥ पुनः कु०-"प्रासंगताप्तं जिननाथचेष्टितं प्रासंगमत्यदभुतमोक्षवम॑नि । प्रासंगतां त्यक्तभवाश्रयाशये प्रासंगवीराद्यभिदे नमांसि ते ॥१॥ कल्याणकल्याणकपञ्चकस्तुतः संभारसंभारमणीयविग्रहः। संतानसंतानवसंश्रितस्थिति कन्दर्पकन्दर्पभराज्जयेजिनः ॥२॥ विश्वान्धकारैककरापवारणः क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः श्रीवीतरागोऽस्तु करापवारणः ॥३॥ संभिन्नभिन्ननयप्रमापणः सिद्धान्तसिद्धान्तनयप्रमापणः । देवाधिदेवाधिनयप्रमापणः संजातसंजातनयप्रमापणः॥४॥ कालापयानं कलयत्कलानिधिः कालापरलीकचिताखिलक्षितिः। कालापवादोज्झितसिद्धिसंगतः कालापकारी भगवान् शियेऽस्तु नः ॥५॥” इन्द्रवंशावृत्तानि । अनेन । "प्रकृतिभासुरभासुरसेवितो धृतसुराचलराचलसंस्थितिः। स्नपनपेषणपेषणयोग्यतां वहतु संप्रति संप्रतिविष्टरः ॥ १॥” अनेन वृत्तेन
१ स्तुतभीरु इर्ति पाठः । २ प्रमाथकारी इति पाठः ।
|॥२०१॥
Jain Education.com
For Private & Personal Use Only
Diww.jainelibrary.org