SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ वृत्तेनबिम्बे मृगमदलेपः । पुनः शक्रस्तवपाठः। ऊ० धूपोत्क्षेपः॥६॥ पुनः कु०-"यशश्चारशुभ्रीकृतानेकलोकः सुसिद्धान्तसन्तर्पितच्छेकलोकः। महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकारिवैपाकलोकः ॥१॥ विमानाधिनाथस्तुताड्खियश्रीविमानातिरेकाशयः काशकीर्तिः। विमानाप्रकाशैर्महोभिः परीतो विमानायिकैलक्षितो नैव किंचित् ॥२॥ क्षमासाधनानन्तकल्याणमालः क्षमासजनानन्तवन्द्याड्डियुग्मः । जगद्भावनानन्तविस्तारितेजा जगथापनानन्तपूःसार्थवाहः ॥३॥ वपुःसंकरं संकरं खण्डयन्ति सहासंयम संयम संतनोति । कलालालसं लालसं तेजसे तं सदाभावनं भावनं स्थापयामि ॥४॥ विशालं परं संयमस्थं विशालं विशेष सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरूपं स्वभक्तानयानं जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥६॥" भुजङ्गप्रयातवृत्तानि । अनेन । “देवादेवावभीष्टः परमपरमहानन्ददाताददाता कालः कालप्रमाथी विशरविशरणः संगतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखण्डना)डना) द्रोणाद्रोणोस्यलेपः कलयति लयतिग्मापवर्गपवर्गम् ॥१॥" अनेन वृत्तेन बिम्बे कालगुरुलेपः । पुनः शक्रस्तावपाठः । ऊ धूपोत्क्षेपः ॥७॥ पुनः कु०-"विधूतकारियल सनातनो विधृतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जितस्थितिः प्रयोगशाली जिननायकः श्रिये ॥१॥ सुपुण्यसंदानितकेशवप्रियः सदैवसंदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रकस्तिरस्कृताशोभनपापतापनः॥२॥ स्थिताततिः पुण्यभृतां क्षमालया पुरोपि यस्य १ विस्मृता इति पाठः। BERASASHISHALASSOS For Private & Personal use only Tww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy