________________
आचारदिनकरः
॥२०
॥
SASURES
॥४॥ वन्दे त्वदीयवृषदेशनसद्मदेवजीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढयं जीवातुलक्षितिमनन्तरमानिवासम् ॥ ५।" वसन्ततिलकावृत्तानि । अनेन । "नैर्मल्यशालिन इमेप्यजडा अपिण्डाः संप्राप्तसग्दुणगणा विपदां निरासाः। त्वद्ज्ञानवजिनपते कृतमुक्तिवासा वासाः पतन्तु भविनां भवदीयदेहे ॥ १॥" अनेन वृत्तेन विम्बे वासक्षेपः । पुनः शक्रस्तवपाठः ऊ धूपोत्क्षेपः ॥५॥ पुनः कु०"सुरपतिपरिक्लुप्तं त्वत्पुरो विश्वभर्तुः कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥१॥ सद्यसदयवानिर्तितामय हर्षा विजयविजयपूजाविस्तरे सन्निकर्षा । विहितविहितबोधादेशना ते विशाला कलयकुलयमुच्चैर्मय्यनत्याचित्त ॥२॥ विरचितमहिमानं माहिमानन्दरूपं प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं सुविशदगुणभारं गौणभारङ्गसारम् ॥ ३॥ सुभवभृदनुकम्पानिर्विशेषं विशेष क्षपितकलुषसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं उपगतसुरपर्षत्सद्धिमानं विमानम् ॥४॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः। विनयविनययोग्यः संपरायो परायो जयति जयतिरोधानकदेहः कदेहः॥५॥" मालिनीवृत्तानि । अनेन "श्रितफणपतिभोगः क्लृप्तसर्वाङ्गयोगः श्लथितसदृढरोगः | श्रेष्ठनापोपभोगः । सुरवषुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः॥१॥" अनेन
१ मुक्तिः इति पाठः ।
ESGRACIAL COCCOU
॥२०॥
*9556
Jain Education
anal
For Private & Personal Use Only
Sww.jainelibrary.org