________________
आचारदिनकर :
॥ १९९॥
Jain Education
वितरणसुधाभुक शिखरिणीव संभूतश्रेयो हरिमुकुट मालाशिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वैशि खरिणी न तेजःपुञ्जाढया सुखरसनकाङ्क्षाशिखरिणणी ॥ १॥ जगद्वन्द्या मूर्तिः प्रहरणविकारैश्च रहितो विशालां तां मुक्तिं सपदि सुददाना विजयते । विशालां तां मुक्तिं सपदि सुददाना विजयते दधाना संसारच्छिदुरपरमानन्दकलिता ॥२॥ भवाभासंसारं हृदिहरणकम्पं प्रति नयत् कलालम्बः कान्तप्रगुणगणनासादकरणः । तृतीयचतुर्थौ पादौ प्रथमद्वितीयतुल्यावेव ज्ञेयौ ॥ ३॥ जयं जीवं भानुं बलिनमनिशं संगत इलाविलासः सत्कालक्षितरलसमानो विसरणे । चतुर्थपद्येऽपि प्रथमद्वितीयपादौ तुल्यावेव तृतीयचतुर्थावेव ज्ञेयौ ॥ ४ ॥ अमाद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैरमाद्यद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो वि मनः सदारागत्यागी विलसदनवद्यो विमथनः ||५||” शिखरिणीवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्चलक्षेपः । “घाणतर्पणसमर्पणापटुः क्लृप्तदेवघटन ागवेषणः । यक्षकर्दम इनस्य लेपनात्कर्दमं हरतु पापसंभवम् ॥ १ ॥" अनेन वृत्तेन यक्षकर्दमविलेपनं विम्बस्य । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० । अनेन वृतेनं धूपोत्क्षेपः ॥ ३ ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा - "आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान | आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान ॥ १ ॥ भालप्राप्तप्रसृमरमहाभागनिर्मुक्तलाभं देवव्रातप्रणतचरणाम्भोज हे देवदेव । जातं ज्ञानं प्रकटभुवनत्रात सज्जन्तुजातं
१ लाभप्राप्त इति पाठः २ माल इति पाठः ।
ational
For Private & Personal Use Only
॥ १९९॥
ww.jainelibrary.org