SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ SURESHA रकल्पप्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥१॥” अनेन वृत्तेन सर्वकुसुमाञ्जल्यन्तराले धूपदानं बिम्बस्य॥१॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"कल्पायुःस्थितिकुम्भकोटिविटपैः सर्वैस्तुरापागणैः कल्याणप्रतिभासनाय विततप्रव्यक्तभक्तया नतैः। कल्याणप्रसरैः पयोनिधिजलैः शक्तयाभिषिक्ताश्च ये कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥" रागद्वेषजविग्रहप्रथमनःसंक्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिनं देवासुर श्रेणिभिः। सम्यकर्चितविग्रहः सुतरसा निर्धूतमिथ्यात्ववक्तेजःक्षिप्तपविग्रहः स भगवान्भूयाद्भवोच्छित्तये॥२॥संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं षण्मध्यप्रतिवासिवैरिजलधिप्रष्टम्भने संवरम् । उद्यत्कामनिकामदाहहुतभुग्विध्यापने संवरं वन्दे श्रीजिननायक मुनिगणप्राप्तप्रशंसं वरम् ॥३॥ श्रीतीर्थेश्वरमुत्तमैनिजगुणैः संसारपाथोनिधेः कल्लोलप्लवमानवप्रवरतासंधानविध्यापनम् । वन्देऽनिन्द्यसदागमार्थकथनप्रौढप्रपञ्चैः सदा कल्लोलप्लवमानप्रवरतासंधानविध्यापनम् ॥४॥ स्नात्रं तीर्थपतेरिदं सुजनताखानिःकलालालसं जीवातुर्जगतां कृपाप्रथनकृत्क्लृप्तं सुराधीश्वरैः अङ्गीकुर्म इदं भवाच्च बहुलस्फूतः प्रभावैनिजैः स्नात्रं तीर्थपतेरिदं सुजनताखानिःकलालालसम् ॥ ६॥” शार्दूलविक्रीडितवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः । “दरीकृतो भगवतान्तरसंश्रयो यो ध्यानेन निर्मलतरेण स एव रागः। मुक्तयै सिषेविषुरमुं जगदेकनाथमङ्गे विभाति निवसन् घुसणच्छलेन ॥१॥" अनेन वृत्तेन कुङ्कमचर्चनं । शक्रस्तवपाठः ऊर्ध्वाधो। अनेन वृत्तेन धूपदानम् ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"प्रभोः परन्दे स मा. दि.३४ Jain Educati o nal For Private & Personal use only Owww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy