________________
आचारदिनकरः
॥१९७॥
SAHASREKASIA-
प्रतीज्छन्तु स्वाहा । ॐ ह्ये पुष्पाणि प्रतीच्छन्तु स्वाहा । ॐ ह्ये धूपं भजन्तु स्वाहा । इति मंत्रे क्रमेण गन्धपुष्पधूपदानं । ततो मंत्रपाठपूर्वकं पुष्पाञ्जलित्रयप्रक्षेपः । मंत्रो यथा-3 सकलसत्वालोककर अवलोकय भगवन् अवलोकय स्वाहा । ततः परिच्छदामपनीय सर्वसंघं संघट्य गन्धपुष्पधूपदीपनैवद्यवस्त्रालंकारैर्महापूजा । ततो मोरण्डसुकुमारिकाप्रभृतिनैवेद्यदानं लवणारात्रिकावतारणं । ततः ॐ ह्ये भूतवलिं जुषन्तु स्वाहा इति मंत्रेण भूतवलिदानं बिम्बाग्रे । ततः संघसहितेन गुरुणा चैत्यवन्दनं विधेयं । ततः पुनः श्रुतदेवीशान्तिदेवीक्षेत्रदेवता अम्बासमस्तवैयावृत्यकरकायोत्सर्गजाः स्तुतयश्च पूर्ववत् । ततः प्रतिष्ठादेवीकायोत्सर्गस्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रतिष्टितमिदं ॥१॥” ततो नमस्कारपूर्वकं शक्रस्तवं पठित्वा शान्तिस्तवभणनं । ततः सङ्घसमन्वितेन गुरुणा मङ्गलगाथापाठपूर्वकं असंमिताक्षताञ्जलिक्षेपो विधेयः। मङ्गलगाथा यथा-"जह सिद्धाणपइट्ठा तिलोयचूडामणिम्मि सिद्धपये । आचन्दसूरिअं तह होउ इमा सुप्पइट्ठित्ति ॥१॥ जह सग्गस्स पइट्टा समग्गलोयस्स मज्झयारम्मि । आचन्दसू० ॥२॥ जह मेरुस्स पइट्ठा समग्गलोयस्स मज्झयारम्मि । आचन्दसू० ॥३॥ जह जम्बूस्स पइट्ठा समग्गदीवाण मज्झयारम्मि । आचन्दसू० ॥४॥ जह लवणस्स पइट्ठा समग्गऊदधिण मज्झयारम्मि । आचन्दसूरिअं तह होउ इमा सुप्पइट्टित्ति ॥५॥” तत आभिरेव गाथाभिः पुष्पाञ्जलिक्षेपः। ततो मुखोद्धाटनं । महापूजामहोत्सवः । ततः प्रवचनमुद्रया गुरुर्धर्मदेशनां करोति । देशना यथा
॥१९७॥
RSS
Jain Education
For Private & Personal use only
www.jainelibrary.org