________________
आचारदिनकरः
॥१९६॥
म्बाग्रे प्रचुरमोदकपक्वान्नढोकनं, ततःषष्टयधिकशतत्रयक्रयाणकपृथकूपुटिकाढौकनं, श्राद्धा आरात्रिकावतार| णं कुर्वन्ति, केचिन्मङ्गलं प्रदीपं च कुर्वन्ति, ततश्चैत्यवन्दनं ततोधिवासना देव्याराधनार्थ “करेमि काउस्सग्गं" |
गुरुश्राद्ध इति कायोत्सर्ग करोति “अन्नत्थ यावदप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं पारयित्वा स्तुतिकथनं यथा-"विश्वाशेषसुवस्तुषु मन्त्रैर्याजसमधिवसति वसतौ। सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥१॥" अथवा "पातालमन्तरिक्ष भवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैनी प्रतिमामधिवासनादेवी ॥१॥” ततः श्रुतदेवीशान्तिदेव्यम्बाक्षेत्रदेवीशासनदेवीसमस्तवैयावृत्तकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुनः शक्रस्तवकथनं ततो गुरुणोपविश्य बिम्बाग्रे स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु, प्रसाद धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां स्वागतमनुस्वागतमिति विज्ञप्तिकावचने धारणा कार्या । इत्यधिवासनाविधिः।
अधिवासनारात्रौ दिवा प्रतिष्ठा प्रायः करणीया । इतरथा समासन्नयोरधिवासनाप्रतिष्ठालग्नयोः किंचित्कालं विलम्बं विधाय अधिवासनातो विभिन्ने लग्ने प्रतिष्ठा कार्या। तस्य चायं विधिः-प्रथम "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥१॥” इति वृत्तेन सर्वदिक्षु सजलं शान्तिबलिदानम् । ततश्चैत्यवन्दनम् । प्रतिष्ठादेवतायाः कायोत्सर्गः । चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्ब
| ॥१९६॥
___lan Education inDara
För Private & Personal use only
gainelibrary.org