________________
Jain Educat
८८
सर्वार्थसिद्धपञ्चानुत्तरभवा वैमानिकाः निज २ वर्ण० शे० |४| पूर्वस्यां सर्वे दशविधा जृम्भका निज २ वर्ण० शे० |५| दक्षिणस्यां रुचकवासिन्यः षट्पञ्चाशद्दिक्कुमार्यः निज २ वर्ण० शेषं० । ६ । पश्चिमायां चतुःषष्टियोगिन्यः निज २ वर्ण० शे० |७| उत्तरस्यां सर्वे वीरभूतपिशाचयक्षराक्षसवनदैवत जलदैवतस्थलदैवताकाशदैवतप्रभृतयो निज २ वर्ण० शेषं० ॥८॥ ततश्च पातालभूलोकस्वर्गलोकवासिनोष्टनवत्युत्तरशतभेदा देवा निज २ वर्ण० शे० |१०| अत्र च सौधर्मेन्द्रस्य नन्द्यावर्तपार्श्वे इन्द्रमध्ये दिक्पालमध्ये त्रिः पूजा, ईशानेन्द्रस्याप्येवं त्रिः पूजा, चन्द्रसूर्ययोर्ग्रहमध्ये इन्द्रमध्ये च द्विः पूजा, तत्र स्थानान्तरे एकस्यापि पुनः पुनः पूजा क्रमकृता स्यान्न दोषाय, यथा शान्तिकुन्ध्वराणां जिनमध्ये चक्रिमध्ये च संस्थानपूजने, तथा च पूजास्त वादौ न पुनरुक्तदोषः । यत उक्तभागमे "सज्झायज्झाणतवोस हेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥१॥" अत्र च पूजने प्रतिष्ठाकर्मकारिभिर्माहनब्रह्मचारिभिः स्वहस्तेन नन्द्यावर्तवलयदेवतानां पूजा विधेया, अष्टकोणाग्निकुण्डे च तत्समीपे घृतपायसखण्डैरिक्षुखण्डैर्नान (फलैः प्रत्येकं परमेष्ठिरत्नत्रयजिन मात्रविद्यादेवीलौ कान्ति केन्द्रेन्द्राणीशासन यक्षशासन यक्षिणीदिक्पाल ग्रहशेपदेवतानां प्रत्येकं नामग्रहणेन तत्पूजामन्त्रैः स्वाहान्तेन होमो विधेयः । क्षुल्लकयतिभ्यां तु प्रतिष्ठाकारिभ्यां सर्व सावद्यसंगविरताभ्यां केवलं पूजैव स्वयं मन्त्रं पठित्वा पार्श्वस्थगृहस्थकरैः कारणीया न तु स्वयं कार्या, यतउक्तमागमे - "सुव्वइयवहररिसिणा कारवर्णपि अणुट्ठिअ मिमत्सु । वायगगच्छेसु तहा एअगणादेसणा चैव ॥ १ ॥ "
-
For Private & Personal Use Only
melibrary.org