________________
दिकपालानां परिपिण्डितपूजा ॥ ततो दशमवलये-"सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्मपूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकर स्वकरेषु लात्वा सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥" अनेन वृत्तेन ग्रहवलयेषु पुष्पाञ्जलिक्षेपः । “विकसितकमलावलीविनियत्परिमललालितपूतपादवृन्दः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमार्चने शुभौघम् ॥१॥” ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सायुधः सवाहनः सपरिच्छदः इह नन्द्यावर्तपूजने आगच्छ २ इदमयं पाद्यं बलिं चक्रं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० फलानि मुद्रां. धूपं०दीपं० नैवेद्य. सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा ।१। "प्रोद्यत्पीयूषपूरप्रसमरजगतीपोषनिर्दोषकृत्यव्यावृत्तो ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः । उन्मावत्कण्टकालीदलकलितसरोजालिनिद्राविनिद्रश्चन्द्रश्चन्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम् ॥१॥" चं चं चं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय वायव्यदिगधीशाय अमृताय अमृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्र सायु० शे०।२। “ऋणाभिहन्ता सुकृताधिगन्ता सदैववक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां श्रीमङ्गलो मंगलमातनोतु ॥१॥"ॐ हूं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय
55555535A
लकालतसरोजाविल्यव्यावृत्तो व
र ॥१॥"
मा.दि.३३
Jain Educ la
inte
"For Private & Personal use only
wainelibrary.org