________________
आचार
दिनकरः
॥१९२॥
Jain Education Inteon
ताखिलदिग्विभागमणिरम्यपाणियुक् । सदगण्य पुण्यजनसेवितक्रमो धनदो दधातु जिनपूजने धियम् ॥ १ ॥” ॐ यं ३ नमः श्रीधनदाय उत्तरदिगधीशाय सवेयक्षेश्वराय कैलासस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाङ्गाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सा० शे० |८| " उद्यत्पुस्तक सस्तहस्तनिवहः संन्यस्तपापोद्भवः शुद्धध्यानविधूतकर्मविमलो लालित्य लीलानिधिः । वेदोचारविशारि चारुवदनोन्मादः सदा सौम्यग् ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद्भव्यं समस्तं जनम् ॥ १ ॥” नमो ब्रह्मणे ऊर्ध्वलोकधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सा० । ९ । “क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवह सततक्षालिताम्भोजवर्णः स्वं सिद्धर्द्धिप्रगल्भीकरणविरचितात्यन्तसम्पातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहन वनज्वालया लालिताङ्गः शम्भुः शं भासमानं रचयतु भविनां क्षीणमिध्यात्वमोहः ॥ १॥" ॐ नमः श्री ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठिताय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्री ईशान सा० शे० | १० | ॐ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजिन पूजितेभ्यः सर्वेपि दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयै पाद्यं बलिं चरुं गृहृन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप . चारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिः पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । इति सर्व
For Private & Personal Use Only
॥१९२॥
helibrary.org