________________
आचारदिनकर
॥१९॥
SAMACHARACTER
| "दिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं शस्त्रं हस्तगत विधाय भगवत्स्नात्रे जगद्दुर्लभे । आनन्दोल्वणमानसा बहुगुणं पूजोपचारोच्चय संध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः॥१॥" अनेन वृत्तेन दिकपालवलये पुष्पाञ्जलिप्रक्षेपः। “सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत् सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः । दुर्लक्षप्रनिपक्षकक्षदहनज्वालावलीसंनिभो भास्वद्भाल निभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥" 3 वषट् नमः श्रीइन्द्राय तप्तकाश्चनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोदिसुरसुराङ्गनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्ये पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं० नैवेद्य० सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितं देहि २ स्वाहा । १। नीलाभाच्छादलीलाललितविलुलितालङ्कृतालंभविष्णुस्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावञ्चितोदश्चिदेहः । नव्याम्भोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूमध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥१॥” ॐ नमः श्रीअग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयाय दिगधीश्वराय कपिलवर्णाय छागवाहनाह नीलाम्बराय धनुर्बाणहस्ताय श्रीअग्ने सा०शे०।२। “मणिकिरणकदम्बाडम्बरालम्बितुंगोत्तमकरणशरण्यागण्यनित्याहदाज्ञाः । बलिभुवनविभावैः स्वैरगन्धा सुधान्ता गुरुवरभुवि लात्वा यान्तु ते दन्दशूकाः॥१॥” उहाँ फु
For Private & Personal Use Only
॥१९॥
ALL
Jain Education in
www.jainelibrary.org