________________
श्री मुनिसुव्रतस्वामिजि० श्रीनरदत्ते शे० | २० | "हंसासना शशिसितोरुचतुर्भुजाढ्या खङ्गं वरं सदपसव्यकरद्वये च । सव्ये च पाणियुगले दधती शकुन्तं गान्धारिका बहुगुणा फलपूरमव्यात् ॥ १ ॥ ॐ नमः श्रीगान्धायै श्रीमजि० श्रीगान्धारि शे० । २१ । “सिंहारूढा कनकतनुरुग् वेदवाहुश्च वामे हस्तद्वन्दे कुशतभुवौ बिभ्रती दक्षिणेऽत्र । पाशाम्रालीं सकलजगतां रक्षणैकार्द्रचित्ता देव्यम्बा नः प्रदिशतु समस्ताघविध्वंसमाशु ॥ १ ॥” ँ नमः श्री अम्बायै श्री अम्बे शे० । २२ । स्वर्णाभोत्तमकुर्कुटाहिगमना सौम्या चतुर्बाहुभृद् बामे हस्तयुगेऽङ्कुशं दधिफलं तत्रापि वै दक्षिणे । पद्मं पाशमुदञ्चयन्त्यविरतं पद्मावती देवता किंनचितfreeपादयुगला संघस्य विघ्नं हियात् ॥ १ ॥” ँ नमः श्रीपद्मावत्यै श्रीपार्श्वजि० श्रीपद्मावति शे० । २३ । "सिंहस्था हरिताङ्गरुम् भुजचतुष्केण प्रभावोर्जिता नित्यं धारितपुस्तकाभयलसद्वामान्यपाणिद्वया । पाशाम्भोरुहराजिवामकर भाग सिद्धायिका सिद्धिदा श्रीसङ्घस्य करोतु विघ्नहरणं देवार्चने संस्मृता ॥ १ ॥ नमः श्रीसिद्धायिकायै श्रीवर्धमान जि० श्रीसिद्धायिके सा० शे० । २४ । ॐ नमः श्रीजिनशासनचतुर्विंशतिजिनशासनदेवीभ्यो विघ्नहारिणीभ्यः सर्ववाञ्छितदायिनीभ्यः समस्तशासनदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमर्घ्य पाद्यं बलिं चरुं गृहन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहन्तु २ शान्तिं कुर्वन्तु २ तुष्टिः पुष्टि० ऋद्धि० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । इति समस्तशासनदेवीनां परिपिण्डितपूजा । ततो नवमवलये
Q
tional
For Private & Personal Use Only
www.jainelibrary.org