________________
श्रीशान्ते शेषं।७। “पीता बिडालगमना भृकुटिश्चतुर्दोवामे च हस्तयुगले फलकं सुपर्शम् । तत्रैव दक्षिणकरेऽप्यसिमुद्गरौ च बिभ्रत्यनन्यहृदयान् परिपातु देवी॥१॥"ॐ नमः श्रीभृकुटये श्रीचन्द्रप्रभस्वामिशा० श्रीभृकुटे शे०।८। “वृषभगतिरथोद्यच्चारुवाहाचतुष्का शशधरकिरणाभा दक्षिणे हस्तयुग्मे । वरदरसजमाले विभ्रती चव वामे सृणिकलशमनोज्ञा स्तात् सुतारा महद्धर्थे ॥१॥"ॐ नमः शीसुतारायै श्रीसुविधिजिनशा० श्रीसुतारे शे०।९। "नीला पद्मकृतासना वरभुजैर्वेदप्रमाणैयुता पाशं सद्वरदं च दक्षिणकरे हस्तद्वये बिभ्रती । वामे चाङ्कुशवमणी बहुगुणाऽशोका विशोका जनं कुर्यादप्सरसां गणैः परिवृता नृत्यद्भिरानन्दितैः ॥ १॥"ॐ नमः श्री अशोकायै श्रीशीतलनाथशा० श्रीअशोके शे०।१। श्रीवत्साप्यथ मानवी शशिनिभा मातङ्गजिद्वाहना वामं हस्तयुगं तटाङ्कुशयुतं तस्मात्परं दक्षिणम् । गाढं स्फूजितमुदगरेण वरदेनालंकृतं बिभ्रती पूजायां सकलं निहन्तु कलुषं विश्वत्रयस्वामिनः॥१॥"ॐ नमः श्रीमानन्यै श्रीश्रेयांसजि. श्रीमानवि शे०।११। "श्यामा तुरगासना चतुर्दोः करयोदक्षिणयोर्वरं च शक्तिम् । दधती किल वामयोः प्रसून सुगदा सा प्रवराताच चण्डा ॥१॥"ॐ नमः श्रीचण्डायै श्रीवासुपूज्यजि० श्रीचण्डे शेषं० ।१२। “विजयाम्बुजगा च वेदवाहुः कनकाभा किल दक्षिणद्विपाण्योः। शरपाशधरा च वामपाण्योर्विदिता नागधनुर्धराऽवताहः॥१॥"ॐ नमः श्रीविदितायै श्रीविमलजि. श्रीविदिते शे०।१३। पद्मासनोज्ज्वलतनुश्चतुराढयबाहुः पाशासिलक्षितसुदक्षिणहस्तयुग्मा । वामे च हस्तयुगलेऽङ्कुशखेटकाभ्यां
Jain Education
anal
For Private & Personal Use Only
Paww.jainelibrary.org