SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १८९॥ Jain Education In " गोगामिनी धवलरुकूच चतुर्भुजादया वामेतरं वरदपाशविभासमाना । वामं च पाणियुगलं सृणिमातुलिङ्गयुक्तं सदाजितवला दधती पुनातु ॥ १॥" नमः श्रीअजितबलायै श्रीअजितनाथशासनदेव्यै श्रीअजितबले सा० शे० |२| "मेषारूढा विशदकरणा दोश्चतुष्केण युक्ता मुक्तामालावरदकलितं दक्षिणं पाणियुग्मम् । वामं तच्चाभयफलशुभं विभ्रती पुण्यभाजां दद्याद्भद्रं सपदि दुरितारातिदेवी जनानाम् ॥ १॥ " नमः श्रीदुरितारये श्रीसंभवनाथशा० श्रीदुरितारे सा० शे० | ३| “श्यामाभा पद्मसंस्था वलयवलिचतुर्वाविभ्राजमाना पाशं विस्फूर्जमूर्जस्वलमपि वरदं दक्षिणे हस्तयुग्मे । विभ्राणा चापि वामेऽङ्कुशमपि कविषं भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितकलिस्फूर्तितद्द्भूतये नः ॥ १ ॥ " नमः श्रीकाल्यै अभिनन्दननाथशा० श्रीकालि सा० शे० । ४ । स्वर्णाभाम्भोरुहकृतपदा स्फारवाहाचतुष्का सारं पाशं वरदममलं दक्षिणे हस्तयुग्मे । वामे रम्याङ्कुशमतिगुणं मातुलिङ्गं वहन्ती सद्भक्तानां दुरितहरणी श्रीमहाकालिकास्तु ॐ नमः श्रीमहाकालिकायै श्रीसुमतिनाथशाः श्रीमहाकालिके सा० शे० । ५ । “श्यामा चतुर्भुजधरा नरवाहनस्था पाशं तथा च वरदं करयोर्दधाना । वामान्ययोस्तदनु सुन्दरबीजपूरं तीक्ष्माङ्कुशं च परयोः प्रभुदेऽच्युतास्तु ॥ १ ॥" नमः श्रीअच्युतायै श्रीपद्मप्रभस्वामिजि० श्रीअच्युते शे० । ६ । “गजारूढा पीता द्विगुणजयुग्मेन सहिता लसन्मुक्कामालां वरदमपि सव्यान्यकरयोः । वहन्ती शूलं चाभयमपि च सा वामकरयोर्निशान्तं भद्राणां प्रतिदिशतु शान्ता सदुदयम् ॥ १ ॥" नमः श्रीशान्तायै श्रीसुपार्श्वनाथजि० For Private & Personal Use Only ॥ १८९ ॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy