________________
आचार
दिनकरः
॥१८६॥
Jain Education i
I
देवेषु कैल्बिषिकाः परमाधार्मिकाश्च न पूजनीयाः, किंत्विन्द्रपरीवार साहचर्येण अखण्डितसूत्रपाठे न दोषः । अन्ये तु ग्रैवेयकानुत्तरसुराः पार्श्वपूजायां जृम्भकादयश्च पूजयिष्यन्ते । ह्रीँ नमचतुःषष्टिसुरासुरेन्द्रदेसम्यग्दर्शन वासिताभ्योऽनन्तशक्तिभ्यः श्रीचतुःषष्टिसुरासुरेन्द्रदेव्यः सायुधाः सवाहनाः सपरिच्छदाः साभियोगिकदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमर्थ्यं पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० गृह्णन्तु सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन चतु:षष्टिसुरासुरेन्द्रदेवीनां परिपिण्डितपूजा । ततः सप्तमवलये । "ये केवले सुरगणे मिलिते जिनाग्रे श्रीसङ्करक्षणविचक्षणतां विदध्युः । यक्षास्त एव परमर्द्धिविवृद्धिभाज आयान्तु शान्तहृदया जिनपूजनेऽत्र ॥ १ ॥” अनेन वृत्तेन सप्तमवलये शासनयक्षाणां पुष्पाञ्जलिक्षेपः । “स्वर्णाभो वृषवाहनो द्विरदगोयुक्तश्चतुर्बाहुभिः विभ्रदक्षिणहस्तयोश्च वरदं भुक्ताक्षमालामपि । पाशं चापि हि मातुलिङ्गसहितं पाण्योर्वहन् वामयोः संघ रक्षतु दाक्ष्यलक्षितमतिर्यशोत्तमो गोमुखः ॥ १॥" ॐ नमो गोमुखयक्षाय श्रीयुगादिजिनशासनक्षाकारकाय श्रीगोमुखयक्ष सायुध सवाहन सपरिच्छदः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्यं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा
For Private & Personal Use Only
॥ १८६॥
v.jainelibrary.org