________________
Jain Education Intern
मुदाकरदत्तबोधनित्यम् । परिकरितसमस्तधिष्ण्यचकैः शशधर धारय मानसप्रसादम् ||१||” पुष्पिताग्रा । नमः श्रीचन्द्राय ज्योतिष केन्द्राय श्रीचन्द्र सा० शे० । ५४ । “सम्यक्त्वव्यतिरेकतर्जितम हामिध्यात्वविस्फूजितः पाणिप्रापित वज्रखण्डितमहादैत्यप्रकाण्डस्थितिः । पौलोमीकुचकुम्भसंभ्रमघृतध्यानोद्यदक्षावलिः श्रीशक्रः क्रतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥ १॥" शार्दूलविक्रीडितं । ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक सायुधः सवाहनः सपरिच्छदः सामानिकाङ्गरक्षत्रयस्त्रिं शल्लो कपालानीकप्रकीर्णक/भियोगिककैल्थिProgrः इह प्रति० शेषं० ॥५५| "ईशानाधिपते ककुद्मदयनश्वताङ्गशलायुधः श्रीतीर्थंकरपादपङ्कजसदासेवैकपुष्पव्रतः । यज्ञध्वंस वरिष्टविक्रमचत्कारक्रियामन्दिर श्रीसंघस्य समस्तविघ्ननिवहं द्रागेव दूरीकुरु ॥ १ ॥” ॐ नमः श्रीईशानाय ईशानकल्पेन्द्राय श्री ईशान इह प्रति० शेषं० ॥५६॥ “ किरीटकोटिप्रतिकूट चञ्चच्चामीकरासीनमणिप्रकर्षः । सनत्कुमाराधिपतिर्जिनाचकाले कलिच्छेदनमातनोतु ॥ १ ॥ ॐ नमः श्रीसनत्कुमाराय सनत्कुमार कल्पेन्द्राय श्रीसनत्कुमार इह० शेष० । ५७| "महैश्वर्यो वर्यार्यमकिरणजालप्रतिनिधिप्रतापप्रागल्भ्यादद्भुत भवन विस्तारितयशाः । चमत्काराधायिध्वजविधुततोरासमुदयः ध्वजिन्या दैत्यान् घ्नन् सपदि स महेन्द्रो विजयते ॥ १॥" नमः श्रीमहेन्द्राय माहेन्द्रकल्पेन्द्राय श्रीमहेन्द्र इह० शेषं० | ५८ | "हंसावियोजनवियोजितवातसाम्य भ्राम्यद्विमानरुचिरीकृतदेवमार्गः । ब्रह्मा हिरण्यसमगण्यशरीरकान्तिः कान्तो जिनान इह प्रकटोsस्तु नित्यम् ॥ १॥ ॐ नमः श्रीब्रह्मणे ब्रह्मकल्पेन्द्राय श्रीब्रह्मम् इह० शेषं० ॥५९॥ " षड्
For Private & Personal Use Only
elibrary.org