________________
आचारदिनकरः
॥१७९॥
२१॥ "गगनतलबलवद्वरिष्ठवर्गः कपिलतराम्बरवर्धमानशोभः । कुसुमयतकदम्बकेतुधारी स महाकालसुराधिपोऽदभुतश्रीः ॥१॥" वृत्तम् । ॐ नमः श्रीमहाकालाय पिशाचव्यन्तरेन्द्राय श्रीमहाकाल सा० शे०।२२। "भुजगश्रेणीयामुनवेणीसमवर्णो हेमच्छेदारग्वधपुष्पोपमवासाः। केतुस्थानस्फूर्जनिर्गुण्डीवरवक्षाः सर्वैर्मान्यो भूयादभूत्यै स सुरूपः॥१॥" मत्तमयूरं । ॐ नमः श्रीसुरूपाय भूतव्यंतरेन्द्राय श्रीसुरूप सा० शे० । २३ । “नन्दीश्वरोऽञ्जनगिरीश्वरशङ्गतेजाःसचम्पकद्रकुसुमप्रतिरूपवस्त्रः। शेफालिकाविरचितोन्नतभावकेतुःसेतुर्विपज्जलनिधौ प्रतिरूप इष्टः॥१॥" वसन्ततिलका । ॐ नमः श्रीप्रतिरूपाय भूतव्यन्तरेन्द्राय श्रीपतिरूप सा० शेष ॥२४॥"विरचितबहुकामश्यामदेहप्रभाढयो लसदरुणपटाभान्यकृतोरुपवालः। प्रकटवटवरिष्ठं केतुमुच्चैर्दधानः परमरिपुविघातं पूर्णभद्रः करोतु ॥१॥” मालिनी। ॐ नमः श्रीपूर्णभद्राय श्रीपूर्णभद्र सा०शे०।२५। "कुवलयदलकान्तिप्राप्तसौभाग्यशोभः प्रसूमरवरजावारक्तसुव्यक्तवासाः । अनुपमबहुपादक्ष्मारुहत्केतुमिच्छन् जयति जिनमतस्यानन्दको माणिभद्रः॥१॥" मालिनी । ॐ नमः श्रीमाणिभद्राय यक्षव्यन्तरेन्द्राय श्रीमाणिभद्र सा. शे०।२६ । स्फटिकनिभैः शरीरभवरोचिषां समूहैर्गगनतलादभुतावगमनाम्बराभिषक्तैः। शयनपदाधिरूढचिरध्वजाभियोगैः पटुतरभूरिलक्ष्मकलितः स भीमदेवः॥१॥" अष्टौजातिः।ॐ नमः श्रीभीमदेवाय राक्षसव्यन्तरेन्द्राय श्रीभीम सा. शेषं । २७ । “शरच्चन्द्रज्योतिर्निचयरचिताशां धवलयन स्फुरद्राजावर्तप्रभवसनशोभाप्रकटनः । स्वकेतौ खष्टाङ्गं दधदविकलं कल्मषहरो महाभीमः श्रीमान् विदलयतु विध्नं तनुभृ
BAR
18॥१७९॥
Jain Education Inter nal
For Private & Personal Use Only
www.jainelibrary.org