________________
૯૦
Jain Education
राजमानोप्यमितगतिरिहास्तु विघ्नहर्ता ॥ १ ॥ " जगत्याम् । ॐ नमः श्रीअमिगतये दिग्भवनपतीन्द्राय श्रीअमितगते सा० शेषं० | १५ | " कृतमालसमद्युतिदेहधरः कलघौतदलोपमवस्त्रधरः । सुरवारणकेतु वरिष्ठरथो मितवाहनराट् कुरुतात् कुशलम् ॥ १॥" जगत्याम् । नमः श्रीमितवाहनाय दिग्भव० श्रीमिनवाहन सा० शेषं | १६ | "लसच्चारुवैराटकोदञ्चिकायः प्रवालाभशिग्युग्ममिष्टं दधानः । मरुद्वाहिनीवाहनप्रष्टकेतुः सवेलम्बदेवेश्वरः स्तान्मुदे नः || १||” भुजङ्गप्रयातं । ॐ नमः श्रीवेलम्बाय वायुभवनपतीन्द्राय श्रीवेलम्ब सा० शेषं । १७| "नवार्कसंस्पृष्टतमालकायरुक् सुपक्वबिम्बोप मवर्णकर्पटः । सुतीक्ष्णदंष्ट्रं मकरं ध्वजे वहन् प्रभञ्जनोऽस्त्वामयभयञ्जनाय नः ॥ १ ॥” वंशस्थं । ॐ नमः श्रीप्रभञ्जनाय वायुभवन० श्रीप्रभञ्जन सा० शेषं० | १८ | "तसकलधौतगात्रद्युतिभ्राजितश्चन्द्रकिरणाभवस्त्रैरदभ्राजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवे लोचन भ्राजितः ॥ १॥" चन्द्राननं । ॐ नमः श्रीघोषाय स्तनितभवनपतीन्द्राय श्रीघोष सा० शेषं । १९ । " ज्वलद्वह्रितप्तार्जुनप्रख्यकायः पशुस्वामिहासद्युतिव्यूतवासाः । शरावध्वजालिङ्गित श्रीविलासो महाघोषदेवा-विराजः श्रियेस्तु || १ ||” भुजङ्गप्रयातं । ॐ नमः श्रीमहाघोषाय स्तनितभव० श्रीमहाघोष सा० शेषं० | २० | "विलसत्तमालदलजालदीधितिदिवस। दिसूर्य सदृशान्तरीयकः । धृतपुष्प नीपकलितध्वजोदयो जयतात् स कालकृतसंज्ञकः प्रभुः ॥ १ ॥ " संधिवर्षिणी । ॐ नमः श्रीकालाय पिशाचव्यन्तरेन्द्राय श्रीकालः सायुधः सवा हनः सपरिच्छदः अङ्गरक्षक सामानिकपार्षद्यानीकप्रकीर्णकाऽऽभियोगिक कैल्बिषिकयुतः इह प्र० शेषं०
For Private & Personal Use Only
www.jainelibrary.org