________________
।।११। शुक्लाः शुक्लनिवसनाः सत्याभाः सत्यवृषभकृतगमनाः। शुभ्राभ्रसूत्रमालां दधतो हस्तद्वये नित्यम् ॥१॥"ॐ नमः सत्याभेम्यो लौ० सत्याभाः सा० शे०।१२। “भविषु सदा श्रेयस्करधवलाः शुचिनीलनिवसना गजगाः । कुर्वन्तु शिवं श्रेयस्करा वरदाभयोजिकरद्वयाः॥१॥” खंधा । ॐ नमः श्रेयस्करेभ्यो लौ श्रेयस्कराः सा० शेषं पू० । १३ । “पीताम्बरकायरुचः कमलधराः कमलवाहना धवलाढयाः । क्षेमंकरा जिनार्चन भाजः क्षेमकराः सदा सुमनोमुख्याः ॥१॥" खंधा । ॐ नमः क्षेमंकरेभ्यो लौ० क्षेमंकरा. सा. शेषं। ।१४। “दूर्वाङ्कशाडिताभ्यां हस्ताभ्यां लक्षिताश्च मानिष्ठाः । हरितसिगुदयरुचिरितिवृषगतिवरचरणयुगवृषभाः ॥१॥"ॐ नमो वृषभेभ्यो लौ० वृषभाः सा० शेषं । १५ । "संध्यारुचिवसना गरुडवाहनाः पञ्चवर्णकायरुचः। रचयन्तु कामचाराश्चककरा निर्मलं चरिताम् ॥१॥"ॐ नमः कामचारेभ्यो लौ. कामचाराः सा. शेषं।१६। "श्वेता हंसासीनाः श्वेतैर्वस्त्रैः शुभावयवपुष्टाः। निर्वाणा निर्वाणं यच्छन्तु प्रौढशक्त्यङ्काः॥१॥" ॐ नमो निर्वाणेभ्यो लौ० निर्वाणाः सा० शेषं०।१७। "नीला अरुणनिवसनाः पाशच्छुरिकाकरा गरुडगमनाः । नित्या दिगन्तरक्षितदेवा विजयं प्रयच्छन्तु ॥१॥" ॐ नमो दिगन्तरक्षितेभ्यो लौ० दिगन्तरक्षिताः सा० शे० । १८ । “तरणीसंस्थाः कदलीदलाभवस्त्राः कपोतकायरुचः । वरदाभयहस्ता आत्मरक्षिताः कुशलमादधताम् ॥१॥" नम आत्मरक्षितेभ्यो लौ० आत्मरक्षिता० सा० शेषं०।१९। "कुर्कुटरथाश्च हरिताः पीताम्बरधारिणः कुलिशहस्ताः। जिनपूजनपर्वणि सर्वरक्षिताः सन्तु संनिहिताः॥१॥" नमः सर्वरक्षि
For Private & Personal Use Only
wrainelibrary.org
Jain arration in