________________
हर्शन हह प्रतिशेष पर्ववत । ततः "गुणपरिचयं कीर्ति शभा प्रतापमखण्डितं दिशाति यदिहामन्त्र स्वर्ग शिवं च सुदुर्लभम् । तदमलमलं कुर्याचित्तं सतां चरणं सदा जिनपरिवृढेरप्याचीर्ण जगत्स्थितिहेतवे ॥१॥" ॐ नमश्चारित्राय विश्वत्रय पवित्राय निर्मलाय स्वर्गमोक्षप्रदाय वाञ्छितार्थप्रदाय भगवंश्चारित्र इह प्रतिष्ठा० शेषं पूर्ववत्॥ ततो द्वितीयवलये-"महादयामयहृदः श्रीतीर्थकरमातरः। प्रसन्नाः सर्वसंघस्य वाञ्छितं ददतां परम् ॥१॥” अनेन द्वितीयवलये जिनमातृयुक्त पुष्पाञ्जलिक्षेपः "इक्ष्वाकुभूमिसंभूता नाभिवामाङ्गसंस्थिता। जननी जगदीशस्य मरुदेवास्तु नः श्रिये ॥१॥"ॐ नमः श्रीमरुदेव्यै नाभिपत्न्यै श्रीमदादिदेव जनन्यै विश्वहिताय करुणात्मिकायै आदि सिद्धायै भगवति श्रीमरुदेवि इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पायं बलिं चरुं गृहाण २ संनिहिता भव स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु२ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा ।। "अयोध्यापुरसंसक्ता जितशत्रुनृपप्रिया । विजया विजयं दद्याजिनपूजामहोत्सवे ॥१॥"ॐ नमः श्रीविजयायै श्वीअजितस्वामिजनन्यै भगवति श्रीविजये इह प्रति० शेषं पूर्ववत् । २। “श्रावस्तीरचितावासा जितारिहृद यप्रिया । सेना सेनां परां हन्यात्सदा दुष्टाष्टकर्मणाम् ॥१॥"ॐ नमः श्रीसेनायै श्रीसंभवस्वामिजनन्यै भगवति श्रीसेने इह प्रति० शेषं पूर्ववत् ।३। “विनीताकृतवासायै प्रियायै संवरस्य च । नमः सर्वार्थसिद्धयर्थ
ja Education in de
For Private & Personal Use Only
www.jainelibrary.org