________________
आचार
दिनकरः
॥ १७१ ॥
Jain Education Inte
हस्ताय द्वात्रिंशल्लक्षविमानाधिपतये पूर्वदिगधीशाय सामानिकपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलौकान्तिकाभियोगिक कैल्बिषिकयुतः स्वदेवीतदेवीयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्ये पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा ततो जलं गृहाण २ स्वाहा गन्धं गृहाण २ स्वाहा पुष्पं गृहाण २ स्वाहा अक्षतान् गृहाण २ स्वाहा फलानि गृहाण २ स्वाहा धूपं गृहाण २ स्वाहा दीपं गृहाण २ स्वाहा नैवेद्यं गृहाण २ स्वाहा सर्वोपचारान् गृहाण २ स्वाहा इत्येतैराहानं संनिहितीकरणं जलगन्धपुष्पाक्षतफलधूपदीपनैवेद्यदानमध्ये पायदानं च । ततः "शूलालंकृत हस्तशस्त करण श्रीभूषितप्रोल्लस देवारातिसमूह संहृतिपरः त्विनिर्जितागेश्वरः । ईशानेन्द्रजिनाभिषेकसमये धमार्थसंपूजितः प्रीतिं यच्छ समस्तपातकहरां विघ्नौघविच्छेदनात् ॥ १ ॥" नम ईशानेन्द्राय स्फटिकोज्वलाय शूलहस्ताय यज्ञविध्वंसनाय अष्टाविंशतिलक्षविमानानाथा सामानिकपार्षद्य शेषं पूर्ववत् । अथ सरस्वतीं प्रति - "जनतान्धकारहरणार्कसंनिभे गुणसंततिप्रथनवासमुच्चये । श्रुतदेवतेऽत्र जिनराजपूजने कुमतीविनाशय कुरुष्व वाञ्छितम् ॥१॥” संधिवर्षणी छन्दः । ह्रीँ श्रीँ भगवति वाग्देवते वीणापुस्तक मौक्तिकाक्षवलयश्वेताब्जमण्डितकरे शशधरनिकरगौरि हंसवाहने इह प्रतिष्ठा महोत्सवे आगच्छ २ शेषं पूर्ववत् । ततः प्रथमवलये "अर्हन्त ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेन्द्राः मुनीश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥ १ ॥" अनेन प्रथमलये अर्हदादिषु पुष्पाञ्जलिक्षेपः । ततः - “विश्वाग्रस्थितिशालिनः समुदया संयुक्तसन्मानसा नानारूप
For Private & Personal Use Only
॥ १७१ ॥
jainelibrary.org