________________
PALASALOCAROSAROKARDSMS
याभिनवम् । सन्मन्त्रयुक्त्या शुचि जैन स्नपयामि सिद्धयर्थम् ॥१॥" एतैर्वस्तुभिजिनबिम्बमालिप्य एतद्वस्तुसंमिश्रेण जलेन स्नानं सर्वेषु स्नात्रेष्वन्तराले चन्दनचर्चनं पुष्पारोपणं धूपदानं ततो विम्बस्यादर्श दर्शयेत् । आदर्शदर्शनमन्त्रो यथा-"आत्मावलोकनकृते कृतिनां यो वहति सच्चिदानन्दम् । भवति स आद
झेयं गृह्णातु जिनेश्वरप्रतिच्छन्दम् ॥ १॥" तत एकोनविंशतितमं तीर्थोदकस्नात्रं । वृत्तं यदा-"जलधिनदीह्रदकुण्डेषु यानि सालिलानि तीर्थशुद्धानि । तैर्मन्त्रसंस्कृतैरिह बिम्ब स्नपयामि सिद्धयर्थम् ॥१॥" विंशतितमं कर्पूस्नात्रं । वृत्त-"शशिकरतुषारधवला निर्मलगन्धा सुतीर्थजलमित्रा । कर्पूरोदकधारासुमन्त्रपूता पततु बिम्बे ॥१॥” ततः पुष्पाञ्जलिक्षेपः । वृत्त-नानासुगन्धपुष्पौघरञ्जिता चिंचिरीककृतनादा। धूपामोदविमिश्रा पततात्पुष्पांजलिबिम्बे ॥१॥" ततएकविंशतितममष्टोत्तरशतमृन्मयकलशः शुद्धजलैः स्नात्रम् । वृत्त यथा-"चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योभिषेकः पयोभिर्नृत्यन्तीभिः सुरीभिर्ललितपद्गम तयनादैः सुदीपैः । कतुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैःसुकुम्भैबिम्बं जैनं प्रतिष्ठाविधिवचनपरः पूजयाम्यत्र काले ॥१॥" ततो गुरुरभिमन्त्रितचन्दनेन वामकरधृतां प्रतिमां दक्षिणकरे सर्वाङ्गमालिम्पति । चन्दनाभिमन्त्रणं मूरिमन्त्रेण अधिवासनामन्त्रेण वा कार्यम् । अधिवासनामन्त्रो यथा-ॐ नमः शान्तये हूँy हूँ सः अथवा ॐ नमो पयाणुसारीणं कविलपर्यतः मूरिमन्त्रः । ततः कुसुमारोपणं धूपोत्क्षेपणं वासक्षेपं च करोति, ततो
१ वदति इति पाठान्तरम् । २ सर्वदानन्दम् इनि पाठान्तरम् ।
A
Jain Education
For Private & Personal Use Only
jainelibrary.org