________________
क्यमहिताय आगच्छ २ स्वाहा । ततो दिकपालाद्दानं संक्षेपेण करोति यथा - "इन्द्रमग्नि यमं चैव नैऋतं वरुणं तथा । वायुं कुबेरमीशानं नागं ब्रह्माणमेव च ॥ १ ॥” मन्त्रो यथा - इन्द्राय सायुधाय सवाहनाय सपरिजनाये इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा । एवमग्नये एवं दशानामपि दिक्पालानामाहानमात्रमेव । ततो बिम्बोपरि पुष्पांजलिक्षेपः वृत्तम्- “सर्वस्थिताय विबुधासुरपूजिताय सर्वात्मकाय विदुदीरितविष्टपाय | स्थाध्याय लोकनयनप्रमदप्रदाय पुष्पांजलिर्भवतु सर्वसमृद्धिहेतुः ॥ १ ॥ ततो दशमं हरिद्रादिसर्वोषधिस्नात्रं । वृत्तं यथा - " सकलौषधिसंयुक्त्या सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनविम्बं मन्त्रित तन्नीरनिवहेन ॥ १ ॥ ततो द्वितीयं सहदेव्यादिसर्वौषधि एकादशं स्नात्रं । वृत्तं यथा - " सर्वामयदोषहरं सर्वप्रियकारकं च सर्वविदः । पूजाभिषेककाले निपततु सर्वोषधीवृन्दम् ॥ १ ॥" द्वादशे विष्णुक्रान्तादिशतमूलस्नात्रं । वृत्तं यथा- "अनन्तसुखसंघातकन्दकादम्बिनीसमम् । शतमूलमिदं विम्बस्नात्रे यच्छतु वांच्छितम् ॥ १ ॥" अयोदशं शतावर्यादिसहस्रमूलीस्नात्रं । वृत्तं - "सहस्रमूलसर्वद्धिसिद्धिमूलमिहार्हतः । स्नात्रे करोतु सर्वाणि वांछितानि महात्मनाम् ॥ १ ॥” ततो गुरुणा दृष्टिदोषघाताय सिद्धजिनमन्त्री दक्षिणहस्तामर्शेन बिम्बे न्यसनीयः । मन्त्रो यथा - इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमयेनेहानुग्रहाय भव्यानां स्वाहा । अथवा हुँ हुँ ह्रीँ क्ष्वीँ भः स्वाहा । अथ लोहेनास्टष्टसिद्धार्थरक्षापोहलिकाः सूरिणाभिमन्त्रिताः स्नात्रकारैः विम्बदक्षिणकरे बन्धनीयाः । तदभिमन्त्रो यथा - क्षाँक्षीँ
Jain Education International
For Private & Personal Use Only
wjainelibrary.org