________________
आचारदिनकरः
॥१६५॥
तृतीयं प्लक्षाश्वत्थशिरीषोदुम्बरवटमध्यछल्लीकषायजलस्नानं । वृत्तं-"प्लक्षाश्वत्थोदुम्बरशिरीषवल्कादिकल्कसंसृष्टम् । बिम्बे कषायनीरं पततादधिवासितं जने ॥१॥” चतुर्थ पर्वतपद्मतडागनदीसंगमनदीतटद्वय
मृत्तिकागो,गवल्मीकमृत्तिकादिस्नानं । वृत्त--"पर्वतसरोनदीसंगमादिमृद्भिश्च मन्त्रपूतानि । उद्वर्त्य जैन| बिम्बं स्नपयाम्यधिवासनासमये ॥१॥” पञ्चमं पञ्चगव्यदर्भोदकस्नात्रं । वृत्तं-“दधिदुग्धवृतछगणप्रस्रवणैः पञ्चभिर्गवांगभवैः । दर्भोदकसंमिश्रः स्नपयामि जिनेश्वरप्रतिमाम् ॥१॥" षष्ठं सहदेवीबलाशतमूलीशतावरीकुमारीगुहसिंहीव्याघीसदौषधिस्नात्रं । वृत्तं यथा-"सहदेव्यादिसदोषधिवगेंणोदतितस्य बिम्बस्य । संमिश्रं विम्बोपरि पनजलं हरतु दुरितानि ॥१॥" सप्तमं मयूरशिखाविहरकअंकोल्ललक्ष्मणाप्रभृति पवित्रमूलिकास्नात्रं । वृत्तं-"स्वपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेधिवाससमये यच्छतु सौख्यानि निपतन्ती ॥१॥" ततः कुष्टादिप्रथमाष्टकवर्गस्य अष्टमं स्नात्रं । वृत्तं यथा-"नानाकुष्टाद्यौषधिसंमिश्रे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कौघं हन्तु भव्यानाम् ।। १॥ ततो नवमं मेदादिद्वितीयाष्टकवर्गस्नात्रं । वृत्तम् – “मेदाद्यौषधिभेदोपरोष्टवर्गः स्वमन्त्रपरिपूतः। जिनबिम्बोपरि निपतत् सिद्धि विद्धातु भव्यजने ॥१॥” इति नव स्नात्राणि । ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिकमुद्रया परमेष्ठिमुद्रया वा प्रतिष्ठाप्यदेवताहानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति । मन्त्रो यथा-ॐ नमोऽहत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलो
॥१६५॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org