________________
धीबहलमंगलयुक्तिरूपं संप्रीणनाकरमपारशरीरिणां च । आदौ प्रभोः प्रतिनिधेरधिवासनायां सप्तान्नमस्तु निहितं दुरितापहारि ॥१॥” ततो गुरुजिनमुद्रया कलशमभिमन्त्रयति । मन्त्रो यथा-ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ जलं गृहाण २ स्वाहा । ततः सौंषधिचंदनाद्यभिमन्त्रयति । मन्त्रो यथाॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सौंषधिचंदनसमालंभनं गृहाण २ स्वाहा । समालंभनं चाचिक्यमुच्यते । ततः पुष्पाणि अभिमन्त्रयति । मन्त्रो यथा- नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वतो मेदिनी पुष्पं गृहाण स्वाहा ॐ नमो यः बलिं दह २ महाभूते तेजोधिपते धुधु धूपं गृह्न २ स्वाहा। तत एभिरेव मन्त्रैविम्बस्य जलसवौंषधिचंदनपुष्पधूपोद्ग्राहणपूजा क्रमात् कर्तव्या मनाक २ ततो बिम्यांगुलो पञ्चरत्नं बध्यते । वृत्त-"स्वर्णमौक्तिकसविद्रुमरूप्यै राजपशकलेन समेतम् । पञ्चरत्नमिह मंगलकार्य देव दोषनिचयं विनिहन्तु ॥१॥" नतः स्नात्रकाराः पूर्वोक्तरुपाः प्रत्येकं चतुः चतुः कलशैः कलशमुद्रया बहगीताद्यविस्तरेण स्नात्रं कुर्वन्ति, चत्वारोपि कलशचतुष्कं जिमविम्योपरि प्रक्षिपन्ति । कलशक्षेपानन्तरं चंदनतिलककरणं पुष्पारोपणं धूपोत्क्षेपणं बिम्बस्य कुर्वन्ति । एतेषु कलशक्षेपेषु नमस्कारपाठ एव । ततः प्रथमं हिरण्योदकेन स्नपनं । वृत्त-"सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिनम् । पततु जलं विम्योपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥" द्वितीयं पञ्चरत्नस्नात्रं, अत्र पञ्चरत्नं प्रवालमौक्तिकसुवर्णरजाताम्ररूपं । वृत्तं यथा-"नानारत्नौघयुतं सुगंधि पुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्ण मन्त्रादयं स्थापनाविम्बे ॥१॥"
AGOGIASHARACTERISELOSTUSS EN
Jarcation
al
For Private & Personal Use Only
Tww.jainelibrary.org