SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ REGISLACHTOSARASAULES गुणयुतानां नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वभूतानाम् ॥१॥" क्षेत्रदेवताकायोत्सर्गः । स्तुतिः-“यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥" ततः शांतिदेवताकायोत्सर्गः । स्तुतिः-"उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमित्तादि। | संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥१॥" शासनदेवताकायोत्सर्गः । स्तुतिः-"या पातिशासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थ भूयाच्छासनदेवता ॥॥” अम्बिकाराधनार्थ कायोत्सर्गः। स्तुतिः-"अम्या बालांकितांकासौ सौख्यस्यान्तं दधातु नः। माणिक्यरत्नालंकारचित्रसिंहासनस्थिता ॥१॥” अच्छुप्तादेवीकायोत्सर्गः । स्तुतिः-"रसितमुच्चतुरंगमनायकं विशतु कांचनकांतिरिहाच्युता। धृतधनुःफलकासिशरैः करैरसितमुच्चतुरंगमनायकम् ॥१॥" समस्तवैयावृत्यकरकायोत्सर्गः । स्तुतिः-"सर्वे यक्षाम्बिकाया ये वैयावृत्यकरा जिने। रौद्रोपेद्रवसंघातं ते द्रुतं द्रावयन्तु नः॥१॥" ततः पूर्णनमस्कारं भणित्वा शक्रस्तवभणनं अहणादिस्तोत्रभणनं जयवीयरागाथाकथनं, ततो गुरुः स्वस्य सकलीकरणं करोति । तद्विधिर्यथा-ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष, ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष, 9 नमो आयरियाणं शिखां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं सर्वशरीरं रक्ष रक्ष, ॐ नमो सवसादगं अस्त्रम्, इति सर्वत्र त्रिस्त्रिः मन्त्रन्यासः । ततः सप्त वारान् शुचिविद्यारोपणं । शुचिविद्या यथा नमो अरिहंताणं, नमो १ क्षुद्रोपद्रव इत्यपि पाठः । Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy