________________
SHAR
कादीनि संपिष्य पृथक् शरावकेषु संस्थाप्य उपर्यन्यशरावान दत्वा कौसुम्भसूत्रेण संवेष्टय तदुपरि नामानि लिखित्वा स्थापयेत् । एका च कुमारी पक्षद्वयविशुद्धा स्नाता कृतालंकारा सकंकणा मोवीरघृतमधुशर्करासहितं नेत्रांजनं पिनष्टि । ततश्च रूप्यकच्चोलिकायां विन्यस्य शरावसंपुटे संस्थाप्यं, तस्यै च कौशेयकंचुलिका देया। ततः स्नात्रकारा वर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासंगभृतः कृतधम्मिल्लाः शुचिवस्त्रप्रावरणाः कृतोपवासाः सकंकणमुद्रिकाः समीपस्था विधेयाः, प्रतिष्ठागुरुश्च कृतोपवासः सदशश्वेतवस्त्रभृतककणालंकृतप्रकोष्ठः स्वर्णमुद्रांकितसावित्रीकः स्नात्रकारचतुष्टययुक्तः चतुर्विधश्रमणसंघसहितःसर्वदिक्षु भूतबलिं ददाति, बकुलपूपादिसर्ववस्तु दिनु निक्षिपति । भूतबलिमंत्रो यथा-"ॐ सर्वेपि सर्वपूजाव्यतिरिक्ता भूतप्रेतपिशाचगणगंधर्वयक्षराक्षसकिनरवेतालाः स्वस्थानस्था अमुं बलिं गृह्णन्तु, सावधानाः सुप्रसन्नाः विघ्नं हरन्तु, मंगलं कुर्वन्तु" अनेन गुरुरिति भूतबलिं दत्वा, स्मात्रकारवपूंषि कवचमन्त्रेण कवचयति। कवचमन्त्रो यथा-ॐ नमो अरिहंताणं शिरसि, ॐ नमो सिद्धाणं मुखे, ॐ नमो आयरियाणं सर्वांगे, ॐ नमो उवज्झायाणं आयुधम् ॐ
नमो लोए सव्व साहणं इति दक्षिण हस्तेन कवची करणं-ततः स्नात्रकारा:लघु स्नात्र विधिना स्नात्रं है। कुर्वन्ति । आरात्रिकादि च कुर्वन्ति ॥ (पानु ६०-६२)
बीजा केटलाक प्रतिष्ठा कल्पमा खात विधि तथा शिला स्थापन विधि विस्तार आपेलो नथी. ऐटले उपयोगी होवाथी ते लखवामां आवे छे.
क
Jain Education Inter
For Private & Personal Use Only
Mainelibrary.org