________________
आचारदिनकरः
॥१५३॥
सुधापडितं चन्द्रोदयविराजितच्छदि सधवाकृतसहरिद्रोदकं तन्दुलचूर्णमण्डनं चैत्यं समानयेत् । लघुगृहपूजाविम्बं च एतदुक्तसंस्क्रिय गृहमानयेत् । ततः स्थिरबिम्बस्याधः पञ्चरत्नं कुम्भकारचक्रमृत्तिकासहित स्थापयेत् । चलबिम्बस्याधस्तु पूतनुदीवालुकां समूल गोकर्णमात्रदर्भ च स्थापयेत् । पूर्व येभ्यो येभ्यो जलाशयेभ्यो महोत्सवेन जलमानीयते, तेषु तेवु गन्धपुष्पधूपदीपनैवेद्यबलिपूजनमन्त्रपूर्वकं विधाय ततो जलमानयेत् । मन्त्रो यथा-ॐव व वं नमो वरुणाय पाशहस्ताय सकलयादोधीशाय सकलजलाध्यक्षाय समुद्रनिलयाय सकलसमुद्रनदीसरोवरपर्वतनिझकूपवापीस्वामिने अमृताङ्गकाय देवाय अमृतं देहि २ अमृतं झर २ अमृतं स्रावय २ नमस्ते स्वाहा गन्धं गृहाण २ पुष्पं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ बलिं गृहाण २ जलं देहि २ स्वाहा । ततो मण्डपमध्ये वेदिरचना, वेदिस्थापनवेदिप्रतिष्ठाविधिविवाहाधिकारादवसेयः । वेदिमध्ये चलबिम्बस्थापनम् , स्थिरबिम्बं तु तथैव जलपट्टोपरि स्थापयेत्, वेदिमध्ये त्वन्यच्चलबिम्ब देववन्दनाप्रथमपूजाकर्मार्थ स्थापयेत् । तत्पार्श्वषु श्वेतवारकोपरि यववारकनिवेशनं चतुर्दिक्षु तथा च गोधूमचूर्णमयघृतगुडसहितकोसुम्भसूत्रवत्तियुक्तमङ्गलदीपचतुष्टयस्थापनं चतुर्दिक्षु वेद्यन्तरालेषु, वेदिस्थापनं तु चैत्ये मण्डपकोणचतुष्के गृहे गृहे त्वङ्गणे वेद्यामष्टासु दिक्षु दिक्पालस्थापन, वेदिबहिर्भागे संक्षिप्तपूजा च लघुस्नानविध्यनुसारेण, स्नात्रकाराः पूर्वोक्ताश्चत्वारः तत्र समानेयाः, पूर्वोक्ताश्चतस्रो नार्यः सकंकणाः कषायमांगल्यमूलोअष्टकवर्गसौषधिशतमूलीसहस्रमूलीपेषणं पवित्रविधिना सोत्सवं कुर्वन्ति । तानि पञ्चरत्नमूलि
१५३॥
Jain Education in
oral
For Private & Personal use only
Rmjainelibrary.org