SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ९ श्चाप १० मृगास्य ११ कुम्भ १२ शफरा १३ मत्स्यः १४ कुलीरो १५ हुड्डः १६ । गौ १७ मीनो १८ हुडु १९ रेणवक्त्र २० हुडुका २१ कन्या २२ तुला २३ कन्यका २४ विज्ञेयाः क्रमतोहतां मुनिजनैः सूत्रोदिता राशयः ॥ २ ॥ एतद्राश्यनुमानेन नाम येनार्हतां समम् । युज्यते कारकस्यास्य बिम्बं कार्य तदर्हतः ।। ३ ।। बिम्ब मणिमयं चन्द्रसूर्यकान्तमणीमयम् । सर्व समगुणं ज्ञेयं सर्वाभी रत्नजातिभिः ॥ ४॥ स्वर्णरूप्यताम्रमयं वाच्यं धातुमयं परम् । कांस्यसीसवङ्गिमयं कदाचिन्नैव कारयेत् ॥५॥ तत्र धातुमये रीतिमयमाद्रियते क्वचित् । निषिद्धो मिश्रधातुः स्याद्रीतिः कैश्चिञ्च गृह्यते॥६॥कार्यो दारुमयश्चैत्ये श्रीपा चन्दनेन वा । बिल्वेन वा कदम्बेन रक्तचन्दनदारुणा ॥७॥ पियालोदुम्बराभ्यां वा क्वचिच्छिशिमयापि वा । अन्यदारूणि सर्वाणि बिम्बकार्ये विवर्जयेत् ॥ ८॥ अशुभस्थाननिष्पन्नं सत्रासं मशकान्वितम् । सशिरं चैव पाषाणं बिम्बार्थ न समानयेत् ॥९॥ नीरोगं सुदृढ शुभ्रं हारिद्रं रक्तमेव वा । कृष्णं हरिं च पाषाणं विम्बकार्य नियोजयेत् ॥१०॥ भूमावपतितगोमयमय मृत्स्ना पूतभूमिसंभूता। लेप्यमयबिम्बकार्ये वर्णा विविधा गवेष्यन्ते ॥११॥ तन्मध्ये च शलाकायां बिम्बयोग्यं च यदभवेत् । तदेव दारु पूर्वोक्तं निवेश्य पूतभूमिजम् ॥ १२॥ एवं निष्पन्नबिम्बस्य प्रतिष्ठा गृहमेधिना । विधाप्या सा विधेया च गुरुणा गुणशालिना ॥ १३ ॥ आचार्यैः पाठकैश्चैव साधुभितिसक्रियः । जैनविप्रैः क्षुल्लकैश्च प्रतिष्ठा क्रियतेहतः ॥ १४ ॥ दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करं श्रोत्रं पौष्णं ब्राझुत्तरात्रयम् ॥ १५॥ प्रतिष्ठायां धनिष्ठा च पुष्यः सौम्यं मघापि च । सप्त il Jain Education a l For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy