________________
CC
A
मुत्तमैः ॥ ६॥ तदव्यङ्गमपि पूज्यं स्यादिवम्यं तनिष्फलं नहि । तच्च धार्य परं चैत्ये गेहे पूज्यं न पण्डितः ।। ७ ।। चतुभिः कलापकम् । प्रतिष्ठिते पुनर्बिम्बे संस्कारः स्यान्न कहिचित् । संस्कारे च कृते कार्या प्रतिष्ठा तादृशी पुनः ॥ ८॥ यदुक्तम्-संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते। हते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥९॥ अथ शास्त्रान्तरेष्वपि श्रूयते । यथा--अतीताब्दशतं यच्च यच्च स्थापितमुत्तमैः । तदव्यङ्गमपि पूज्यं स्यादविंम्ब तन्निष्फलं नहि ॥ १० ॥ नखाअलीबाहुनासांध्रीणां भङ्गेष्वनुक्रमात् । शत्रुभीर्देशभङ्गश्च धनबन्धुकुलक्षयः ॥११॥ पीठयानपरीवारध्वंसे सति यथाक्रमम् । जैन(नैज)वाहनभृत्यानां नाशो भवति निश्चितम् ॥१२॥ आरभ्यैकाङ्गुलादम्बिाद्यावदेकादशान्गुलम् । गृहेषु पूजयेदविम्बमूवं प्रासादगं पुनः ॥१३॥ प्रतिमाकाष्ठलेप्याश्मदन्तचित्रायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥१४॥ रौद्री निहन्ति कर्तारमधिकाङ्गी तु शिल्पिनम् । हीनाङ्गी द्रव्यनाशाय दुर्भिक्षाय कृशोदरी ॥१५॥ वक्रनासातिदुखाय हुस्वागी क्षयकारिणी। अनेत्रा नेत्रनाशाय स्वल्पा स्याभोगवर्जिता ॥ १६ ॥ जायते प्रतिमा हीनकटिराचार्यघातिनी । जवाहीना भवेद्भातृपुत्रमित्रविनाशिनी ॥ १७॥ पाणिपादविहीना तु धनक्षयविधायिनी। चिरपर्युषितार्चा तु नादर्तव्या | यतस्ततः ।। १८ ॥ अर्थहतातिमोत्ताना चिन्ताहेतुरधोमुखी । आधिप्रदा तिरश्चीना नीचोच्चस्था विदेशदा ॥ २० ॥ अन्यायद्रव्यनिष्पन्ना परवास्तुदलोदभवा । हीनाधिकाङ्गी प्रतिमा स्वपरोन्नतिलाशिनी ॥२१॥ प्रासादतुर्यभागस्य समानप्रतिमा मता । उत्तमा यत्कृते सा तु कार्यकोनाधिकाइन्गुला ॥ २२ ॥ अथवा स्वदशाङ्गेन
BACRORSCOCCASCREEN
Jain Education
H
a
For Private & Personal Use Only
jainelibrary.org