________________
आचार- दिनकरः
॥१४५॥
तृप्रतिष्ठा १२ यतिमूर्तिप्रतिष्ठायामाचार्योपाध्यायसाधुमूर्तिस्तूपप्रतिष्ठा १३ ग्रहप्रतिष्ठायां सूर्यचन्द्रग्रहतारा| नक्षत्रप्रतिष्ठा १४ चतुर्णिकायदैवतप्रतिष्ठायां दिक्पालेन्द्रसर्वदेवशासनयक्षादिप्रतिष्ठा १५ गृहप्रतिष्ठायां मित्तिस्तम्भदेहलीद्वारश्रीहतृणगृहादिप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठायां वापीकूपतडागनिर्झरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठायां वाटिकावन देवतादिप्रतिष्ठा १८ अट्टालकादिप्रति आयां स्थण्डिलपद्यादिप्रतिष्ठा १९ दुर्गप्रतिष्ठायां दुर्गप्रतोलीयन्त्रादिप्रतिष्ठा २० भूम्यायधिवा- | सनायां पूजा भूमिसंवेशभूम्यासनभूमिविहारभूमिनिधिभूमिक्षेत्रभूमिप्रभृतिभूमिजलवहिचुल्लीशकटीवस्त्रभूषणमाल्यगन्धताम्बूलचन्द्रोदयशय्यापर्याणपादत्राणसर्वपात्रसौषधिमणि दीपभोजनभाण्डागारकोष्ठागारपुस्तकजपमालीवाहनशस्त्रकवचप्रक्षरस्फुरद्वादिगृहोपकरणक्रयविक्रयसभोग्योपकरणचमरसववादित्रसर्ववस्त्व धिवासना २१ ताश्च द्वारप्रतिष्ठाद्वारक्रमेण वक्ष्यन्ते । यथाप्रथमं बिम्बप्रतिष्ठा-"विषमैरङ्गुलैहस्तैः कार्य यिम्बं न तत्समैः । द्वादशाङ्गुलतो हीनं बिम्ब चैत्ये न धारयेत् ॥ १॥ ततस्त्वधिकमागारे सुखाकाङ्क्षी न पूजयेत् । लोहाइमकाष्ठमृद्दन्तचित्रगोविड्मयानि च ॥ २॥ बिम्बानि कुशलाकाउक्षी न गृहे पूजयेत् क्व. चित् । खण्डिताङ्गानि वक्राणि परिवारोज्झितानि च ॥ ३॥ प्रमाणाधिकहीनानि विषमाङ्गस्थितीनि च ।
अप्रतिष्ठानि दृष्टानि बिम्बानि मलिनानि च ॥ ४ ॥ चैत्ये गृहे न धार्याणि बिम्बानि सुविचक्षणः । धातुलेप्यमयं 8 सर्व व्यङ्गं संस्कारमहति ॥ ५॥ काष्ठपाषाणनिष्पन्नं संस्कारार्ह पुनर्नहि । यच्च वर्षशतातीतं यच्च स्थापित
॥१४॥
Jan Education
M
al
Private&Personali
Wjainelibrary.org