SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ૧ Jain Education गयणस्स अणतत्तं अप्पडिघाओ जहेब जीयस्स । तह उत्तमाण जाए धीरतं मरणसमयस्मि ॥ १९ ॥" नय न जाइ सो दियहो० २० । इति गाथाव्याख्यानं तीर्थस्तोत्राणि शाश्वताशाश्वतचैत्यस्तोत्राणि आराधनाकुलकं च पठेत् । उत्तराध्ययनभव भावनाव्याख्यानं च कुर्यात्, संवेगरङ्गशाला तस्याग्रे भणनीया, श्राद्धाः संघपूजादि महोत्सवं बहु कुर्वन्ति । एतत्संग्रहो यथा--"संघजिणपूयवंदण उसगत्थय सोहितयणु खमगंधा । नवकारसम्म समईअ चउसरणासाण तित्थथुइ ॥ १ ॥ अनेन विधिना साधुः कृतपर्यन्तसाधनः । कालानुभावतो मोक्षं स्वर्ग वा गच्छति ध्रुवम् ॥ २ ॥” इति पर्यन्ताराधनाविधिः ॥ अथ अचित्तमुनिशरीरपरिष्ठापना - विधिरुच्यते - साधौ परासुतां गते तच्छरीरस्यैव क्रियां सर्वे मुनयः कुर्वन्ति । तत्दूरमध्यासन्ने स्थंडिलत्रयं कुर्यात्, तत्र श्वेतसुगन्धिकुङ्कुमाञ्चितं श्वेतवस्त्रत्रयं धारयेत्, एकं मध्यप्रस्तरणे एकं प्रावरणे एकमुपरिप्रच्छादने, दिवा वा रात्रौ वा मृतस्य साधोर्मुखं तत्कालमेव मुखवस्त्रिकया प्रच्छादयेत् । पाणिपादाङ्गुष्ठाङ्गुलिमध्यानि ईषदीषद विदारयेत्, करपादाङ्गुष्ठाङ्गुलीः परस्परं बध्नीयात्, यदा रात्रौ म्रियते तदा जागरणं कार्यम् । तत्र ये शिष्याः शिशवः कातराः अगीतार्थाः ते सबै ततोऽपसारणीयाः । ये पुनर्गीतार्था अभीरवो जितनिद्रा उपायकुशला आशुकारिणः अप्रमादास्तैस्तन्निकटे स्थातव्यं, प्रस्रवणमात्रमपि अपरिष्ठापितं पार्श्वे स्थापयितव्यं हृदये शिला दातव्या यदि शव उत्तिष्ठति ततो गीतार्था वामहस्तेन मात्रकात् मूत्रं गृहीत्वा तमाच्छोदयन्ति । मन्त्रो यथा " गाहाय मा उट्ट वुज्झ वुज्झ गुज्झ मा मुज्झ" इति निशि शवजागरण For Private & Personal Use Only ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy