________________
आचारदिनकरः
प्रार्थनाय विधेयो वाचनाक्रमः। यत्तत्र ते विदधति सार्चनमहोत्सवम् ॥ १४ ॥ अथवा सर्वशास्त्राणि पठनीयानि साधुभिः। व्याख्यानं चरणं चैव विधेयं परमागमे ॥ १५॥ यत उक्तमागमे-सव्वं सिक्खियव्वं न समायरियव्वम् ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे ऋतुचर्याव्याख्यानकीतनो नाम उदयः ॥३१॥
॥१४
॥
अथ मुनीनामन्तसंलेखनाविधिः । सा च नीरोगाणां कर्मक्षयमोक्षकाइक्षिणामप्राप्तेपि मरणकाले द्वादशवर्षा भवति। सा यथा-"चत्तारि विचित्ताई विगइनिज्जूहियाई चत्तारि । संवत्सरे अदुन्निउ एगंतरिअंच आयामं ॥१॥ ताई निविगओ अ तवो छम्मासे परिभिअंच आयाम । अवरे वि अछमासे होइ विगि तवो कम्मं ॥२॥ वासं कोडी सहिअं आयाम कट्टु आणुपुवीए । गिरिकंदरं च गंतुं पाओवगम पव्वज्जेइ ॥३॥" चतुःसंवत्सरी यावत् विचित्राणि तपांसि अन्तरितान्येक भक्तेः षष्ठाष्टमदशमद्वादशचतुर्दशपक्षक्षपणमासक्षपणादीनि । ततः पुनः चतुःसंवत्सरों यावत्तान्येव तपांसि निर्विकृतिकान्तरितानि । ततः संवत्सरयं यावत् निर्विकृतिकान्तरितान्याचाम्लानि । ततः षण्मासी यावत् चतुर्थषष्टादितपःकरणे परिमितभोजनमाचाम्लम् । ततः षण्मासी यावद्दशमतप आचाम्लान्तरितम् । ततो वर्ष यावत् कोटिसहितमाचाम्लमाचाम्लस्य कोटयाग्रभागेणान्या
For Private & Personal Use Only
॥१४०
Jan Education inte
.
relibrary.org