________________
SAROSAROSARORSCIRCASEARCHAMASALA
इमामेवंविधां चर्या वहन्तो मुनिकुञ्जराः । वर्षाकालमतिक्रम्य शरदं प्राप्नुवन्ति ते ॥ ३॥ इति वर्षतुचर्या । शरत्कालेपि साधूनामियं चर्या प्रकीर्तिता । न विहारो न वा वस्त्वादानं पानान्नवर्जितम् ॥४॥” इति शरचर्या । अथ व्याख्याविधिः। "आचार्या वा उपाध्याया मुनयश्च महत्तराः । सङ्काग्रतो यद व्याख्यानं कुर्वन्ति तदिहोच्यते ॥१॥ उत्कालिकं कालिकं च सिद्धान्तं द्वादशाङ्गकम् । व्याख्येयमत्र योगादि कायोत्सर्गसमन्वितम् ॥२॥ त्रिषष्टिशलाकापुंसां चरितान्यखिलान्यपि । तथा च गणभृत्साधुसाध्वीनां च पुरातनम् ॥३॥ श्रावकाणां प्राविकाणां धर्मदृष्टान्तहेतवे । कथानकानि मुनयः कथयन्ति सविस्तरम् ॥४॥ अनित्यतामशरणं भवमेकत्वमन्यताम् । अशौचमाश्रवविधि संवरं कर्मनिर्जरम् ॥५॥ धर्मस्वाख्याततालोकं द्वादशी बोधभावनाम् । व्याख्यान्ति मुनयः प्राय इति द्वादश भावनाः ॥६॥ सिद्धान्तटीकाचूण्यादिप्रसङ्गादपरं पुनः । प्रमाणशास्त्रं जैनं च व्याख्येयं ध्येयमेव च ॥७॥ अन्यानि पठनीयानि तर्कसंवादहेतवे। तत्त्वं धर्मानुषंगत्वं व्याख्येयं परमाहतम् ॥ ८॥ निरुक्तिर्योतिष छन्दः शिक्षा व्याकरणं तथा। कल्पः षडङ्गअध्येतव्या शास्त्रव्याख्यानहेतबे ॥९॥ वेदाः पुराणानि तथा स्मृतयः शिल्पभाषितम्। एतानि नाध्येतव्यानि व्याख्येयानि न कुत्रचित् ॥ १० ॥ वैद्यकं कामशास्त्रं च दण्डनीतिं च जीविकाम् । मीमांसामिति शास्त्राणि न पठन्ति मुनीश्वराः॥११॥ वर्षाकाले विशेषेण साधुधर्मकथां वदेत् । यतो हि धर्मकालस्सोपरकार्यविवर्जितः ॥ १२ ॥ तथा पर्युषणासन्ने काले कल्पस्य वाचनाम् । कुर्वन्ति मुनयः शान्ताः सर्वथैव दिनत्रयम् ॥ १३॥ तत्र श्राद्ध.
RECORROROSESSOCIOUSNES
Jain Education inte
For Private & Personal Use Only
whigalendinelibrary.org