SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ * * * वर्षान्ते वा लोचः, क्षुरमुण्डनकर्तरीमुण्डनयोरपि क्षमाश्रमगवन्दनकादि सर्व लोचवत नवरं “दुकरं किय इंगिणी साहिया” इति गुरुवचनं लोचं विना अन्यत्र न । “हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । क्षुरकर्म शुभं प्रोक्तं कायौत्सुक्ये तु सर्वदा ॥१॥" इह यदुक्तं कायौत्सुक्ये तु सर्वदेति-"तीर्थे प्रेतक्रियायां च दीक्षायामोपपातिके । पितृमातृक्षये क्षौरे नक्षत्रादि न चिन्तयेत् ॥ १॥” तत्रोपनयनप्रव्रज्याचार्यपदस्थापनपर्युषणादिषु नियमाल्लोचमुण्डनादि कर्तव्यमेव । तत्र यदि क्षौरनक्षत्रं न स्यात् तथापि तत्कायोत्सुक्ये प्रोक्तव्यतिरिक्तेऽपि नक्षत्रे लोचादिक्षुरकर्म विधेयम् । स च लोचः कैश्चिद्भाद्रपदपौषवैशाखेषु चातुर्मासिको विधीयते, कैश्चिय भाद्रपदफाल्गुनयोः पाण्मासिकः क्रियते, कैश्चित्सांवत्सरिको भाद्रपदे पर्युषणासन्न एव विधीयते । अथ तदर्थ लोचविधिरभिधीयते-यथा कायौत्सुक्यजिते लोचे शुभेषु क्षौरनक्षत्रतिथिवारेषु चन्द्रबले च लोचकारयिता दृढसत्यो गुरुपुरतः ऐपिथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व भणति "भगवन् लोचमुहपत्ति पडिलेहेमि” ततो मुखवस्त्रिका प्रतिलिख्य क्षमाश्र. "भगवन् लोयं संदिसावेमि" गुरुः कथयति “संदिसावेह अणुन्नायं मए" ततो लोचकारयिता साधून विनयपूर्वकमर्थयित्वा लोचं कारयति, ततो लोचानन्तरं मुनिर्यापथिको प्रतिक्रम्य चैत्यवंदनं कुर्यात्, ततो गुरुपुरः समेत्य मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनकं ददाति, ततः क्षमाश्र० भगवन् "लोयं पवेएमि संदिसह किं भणामो” गुरुः कथयति "वंदित्ता पवेएह" पुनः शिष्यः क्षमाश्रम० "केसा मे पज्जुसिया इच्छामि अणुसहि" गुरुः कथयति "दुक्करं कियं ** आ. दि.२३ _ian Eduote For Private & Personal Use Only gelibrary.org ऊन
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy