________________
चारइनकरः
१३८॥
SANSARGEORGARLS
दानप्रतिग्रहान् । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥२३॥ मङ्गल्यमभिषेकं च मलमासे विवर्जयेत् । मलमासज्ञानं यथा-अमावास्याद्वयं यत्र द्वयसंक्रमणान्तरे। मलमासः स विज्ञेयस्त्यक्त्वा पञ्च तुलादिकाः ॥२४॥ अमावास्यामतिक्रम्य यदा स्यात्संक्रमो रवेः । स पाश्चात्यो मलो मासः शुद्धोऽग्रे मास उच्यते ॥२५॥ पज्जु-:P सणे चउमासे पक्खियपव्वट्ठमीसु नायव्वा । ताओ तिहिओ जासि उवेइ सूरो न अनाओ ॥ २६ ॥ पच्च-3 क्खाणं पूआ जिणंदचंदाण तासु कायव्वा । इहरा आणाभंगो आणाभंगमि मिच्छत्तं ॥ २७ ॥ दशाश्रुतस्कन्धभाष्यात्-उदये या तिथिः प्रोक्ता घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृके ॥ २८ ॥ यां तिथि समनुप्राप्योदयं याति दिवाकरः। पलाई च पलांश च तां प्रशंसन्ति दैविकाः ॥ २९ ॥ अन्यच्च मलमासवर्ण्यमाह--सर्व विवर्जितं कर्म भानुलवाधिमासयोः । पैतृकं स्वधिमासेपि कुर्यान्नो भानुलविते ॥ ३० ॥ यथा--अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरास्तीर्थादेवयात्रामरे णम् ॥ ३१ ॥ देवारामतडागादिप्रतिष्ठा मौञ्जिबन्धनम् । अग्नीनां स्वीकृतिः काम्यवृषोत्सर्गस्य निष्क्रमः॥३२ राज्ञोभिषेकः प्रथमश्चूडाकर्मव्रतानि च । अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् ॥ ३३॥ व्रतारम्भसमाप्ति च कर्म काम्यं च पाप्मनः । प्रायश्चित्तं च सर्वस्य मलमासे विवर्जयेत् ॥ ३४ ॥ तत्र सङ्घसमक्षं च विध्यात् कल्पवाचनाम् । तथा केशापनयनं विधिस्तस्याभिधीयते ॥ ३५ ॥" यथा तत्र साधूनां केशापनयनं विधा, क्षुरमुण्डनं कतरीमुण्डनं लोचश्च । पक्षे २ कर्तरीमुण्डनम्, मासे २ क्षुरमुण्डनम्, चतुर्मासान्ते षण्मासान्ते
॥१३८॥
Jain Education
a
l
For Private & Personal Use Only
Niww.jainelibrary.org