________________
आचार
दिनकरः
॥१३६॥
Jain Education,
विहारकर्मणि वर्जितायां तदवक् त्रयोदश्यामपि विहारमनुमन्यन्ते गीतार्थाः ॥ " आपृच्छय श्राद्धजनं क्षेत्रसुरं नृपतिमथ सुसाधुजनं । गुरुणानुज्ञातः सन् विहरेद्दिवसे न च रजन्यां ॥ १ ॥ मासमपि यत्र तिष्ठति साधुर्गृह्णाति तत्र पडनुज्ञाः । शक्रक्षेत्रामरन्नृपतिसाधुपुर मुख्यगुरुकथिताः || २ ||” यदुक्त. मागमे "देविंदराव सागर साहम्मि उग्गहे पंच । गुरु ऊग्गहिइ पुणो इह आउपमाणो चउदिसंपि ॥ ३ ॥" मुनित्र तिष्ठेत्तत्र भिरनुज्ञातः, अन्यथा तु षड्नुज्ञारहितः स्थितिप्रस्थितिभ्यां मुनेरदत्तादानव्रतभङ्गः इति हेमन्त ऋतुचर्या । “शिशिरे मुनिराधत्ते चर्या हेमन्तवत् पुनः । न श्लेष्मलं किंचनापि भुञ्जीत न जलं बहु ॥ १ ॥” इति शिशिर चर्या । "वसन्तेथ मुनिः कुर्याद्भूषात्यागं तु सर्वथा । गृह्णीयाद्विरसाहारं न वस्त्रं चैव शोभनम् ॥ १ ॥ सर्वदा मुनयो ब्रह्मयुक्तियुक्ता भवन्ति हि । विशेषेण वसन्ते तु स कालो हि स्मरोल्बणः ॥ २ ॥ भिक्षाविशुद्धिं कुर्वीत विहारं च दिने दिने । प्रायेण निर्जनेरण्ये वसेत् स्त्रीपशुवर्जिते ॥ ३ ॥ व्यायामशीलो हि मुनिस्तिष्ठेत् सुरभिसंगमे । अस्वाध्यायनिवृत्त्यर्थं विदध्यात् कल्पतर्पणम् ॥ ४ ॥" अब च चैत्रशुद्धपञ्चमीमारभ्य वैशाख कृष्णप्रतिपदं यावत् भूमण्डले सर्वत्र निजनिजकुलदेवतापूजनार्थं जनाः सर्वेपि पशुमहिषवधं विदधति, तेन मुनीनामस्वाध्यायः कालः, न तत्रागमपाठकालग्रहणादि कल्पते । ततस्तदपनयनार्थ कल्पतर्पणं कुर्यात् । तस्य चायं विधिः, वैशाख कृष्णप्रतिपदि व्यतीतायामालोचनात्तपोयोग्य दिने "मृदुधुवचरक्षिप्रैर्वारे भौमं शनिं विया । आवादनतपोनन्यालोचनादिषु भं शुभम् ॥ १ ॥" मुनयोल्पजलै
I
For Private & Personal Use Only
॥१३६॥
ainelibrary.org