SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Jain Education It या व्यतीते ब्राह्ममुहूर्तादर्वाक् जाग्रदपि साधुः गाढस्वरपाठालापैर्नान्यं जागरयेत् इत्युत्तराध्ययनरहस्यम्, इत्येवं मुनयो वन्यश्चाहोरात्रमवहिताः कषायविनिर्मुक्ताः समरमलीनाः संयमपालनं कुर्वते ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे अहोरात्रचर्या कीर्त्तनो नाम उदयः ॥ ३० ॥ अथ साधूनामृतुचर्या व्याख्यान विधियुक्ता कथ्यते । सा यथा - "हेमन्तत भवेत्साधुः प्रायो वसनवर्जितः । अल्पनिद्रस्तथाहारमल्पं भुञ्जीत कर्हिचित् ॥१॥ न तैलाभ्यञ्जनं कुर्यान्न वा कुन्तलधारणम् । न तुलं न निकामं च शयनं नाग्निसेवनम् ॥ २ ॥ नोष्णतीक्ष्णामलमधुर भोजनेच्छा रसोद्गमात् । न चान्यकायसंस्पर्श न पादत्राणमेव च ॥ ३ ॥ न शीतजलपानं च कुर्यान्नो शान्तभोजनम् । रम्यनिर्वातगेहेषु न रतिं पशुवत्सु च ॥ ४ ॥ नारीपण्डादिभिः संग न कुर्वीत कदाचन । नोष्णोदकादिभि: स्नानं न दीपोद्योतमर्शनम् ॥ ५ ॥ नाच्छादिते च शयनं नोर्णावस्त्रं विना भ्रमः । मूत्रनिटीवनादीनां न च स्थापनमञ्जसा ॥ ६ ॥ पात्रे मात्रे च शुचये देहे भूमौ नखान्तरे । न स्थापयेज्जलावेश कदाचन मनागपि || ७ || देहसंयमरक्षार्थी संग्रह कम्बलादिना । कुर्वीत वस्त्रसंयुक्तं वस्त्रहीनं न कम्बलम् ॥ ८ ॥ मार्गाद्याषादपर्यन्तं मासे मासे महर्षयः । विहारं कुर्वते तेषां स्थितिरेकत्र नोचिता ॥ ९ ॥ स्नेहद्वेषा For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy