SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥१३४॥ CAMERASACARSAEXESONS वसौभाग्यं धनस्थानपरिग्रहः । सुखासिका च साधूनां दोषा एकत्र संस्थितेः ॥ १०॥ मासान्ते ऋतुपर्यन्ते ऋतुद्वित्रिषु चायने । वर्षान्ते वा मुनीद्राणां विहार उचितो ध्रुवम् ॥११॥ यत उक्तमागमे-संवत्सरं वावि परं पमाणं बीअंच वासं न तहिं पसज्जा । सुत्तस्स मग्गेण चरिन्ज भिक्खू सुत्तस्स अत्थो जह आणवेइ ॥ १२ ॥ विमृश्येति विहारेषु नालसाः स्युर्महर्षयः । अतोऽभिधीयते कश्चिद्विहारविधिरुत्तमः॥१३॥ यथा । विहारस्य कालो यथा-वर्षाशरजिताश्च चत्वार ऋतवोऽदभुताः । अमेघता सुभिक्षं च पथामपि मनोज्ञता ॥ १४ ॥ अविचरो नृपादीनां परचक्राद्यभावता । विहार ईदृशः कालो युज्यते यतिनां परम् ॥ १५॥ विहारयोग्या मुनयो यथा-नीरुजः करजङ्खाश्च गतिशक्तिगुणान्विताः । सर्वदेशस्थितिज्ञाश्च सर्वभाषाविचक्षणाः ॥१६॥ अलुब्धाश्च रसस्पर्शस्थानेष्वपि कलाविदः । सर्वविद्याप्रवक्तारः संयमैकधुरंधराः ॥१७॥ पट्विन्द्रिया युवानश्च परापेक्षाविवर्जिताः। शीतोष्णतृष्णाक्षुन्निद्राविबाधासहनक्षमाः ॥१८॥ यहपकरणाः शान्ता गुर्वा-1 ज्ञापालनोग्रताः । अर्हन्ति साधवो नित्यं विहारं नापरे पुनः॥१९॥ विहारोपकरणानि यथा-सुसार्थो वासराः श्लाध्या बहुता वस्त्रपात्रयोः । सर्वोपकरणबातो दण्डप्रोंछनकादिकः॥ २०॥ दण्डा अनेकधा भूरि-14 पुस्तकत्वं च कम्बलाः । देहे समर्थता धैर्य विहारेषु गवेष्यते ॥ २१॥ विहारायोग्यो देशो यथा-अनार्येषु सपापेषु सदुभिक्षेष्वसाधुबु । सविड्वरेष्वल्पजल श्राद्धेषूपप्लवेषु च ॥२२॥ अनार्यदेशो यथा-सग १ जवण२ सबर ३ बबर ४ काय ५ सुरंड ६ उ७ गुड ८ फकगया ९। अक्वायग १० होग ११ रोमय १२ पारस १३ ॥१३४॥ Jan Education na For Private & Personal Use Only M ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy