________________
NAGALER
पारावेह" ततो विधिना त्रिविधपात्राणि प्रतिलिख्य, पिण्डनियुक्तिशास्त्रोक्तविधिना भक्तपानगवेषणां कुर्यात् , ततो द्विचत्वारिंशदोषविशुद्धं भक्तपानं गृह्णीयान् । साधवः साध्व्यश्च हस्तशतादनन्तरं व्यायामार्थ भिक्षार्थ चान्यकार्यार्थ वानकाकितया गच्छन्ति । साधुसाध्वीनां विचरं सर्वत्रैव । यदुक्तमागमे-"कतो सुत्तत्थागम परिपुच्छणचोअणा य इक्कस्स। विगओ वेयावच्चं आराहणया य मरणंते ॥१॥ पिल्लेग्जेसणमिको पइन्नपमयाजणाओ निच्चभयं । काउमणोवि अकजं न तरह काऊण बहुमज्झे ॥२॥ उच्चारपासवणवंतपित्तनुच्छाविमोहिओ इको । सहविभाणविहत्थो निक्खवह व कुणइ उडाहं ॥३॥ एगदिवसेण बहुला सुहाय असुहाय जीवपरिणामा। एगो असुहपरिणओ चइज्ज आलंबणं लधु ॥४॥ सव्वजिणपडिकुट्ट अणवत्था थेरकप्पतेओ अ । एगो असुहाउत्तो विहसह तवसंजमं अइरा ॥५॥" ततो दशवैकालिकपिण्डैषणाध्ययनोक्तयुक्त्या भक्तपानादि गृहीत्वा पुनर्वसतिमागच्छेत् । ऐर्यापथिकी प्रतिक्रम्य गमनागमनाद्यालोचनं कुर्यात् । तद्यथा-"भगवन् गमणागमणं आलोएमि मग्गे आवंतेहिं जंतेहिं पुव्व उत्तरअवरदक्खिणदिसि गएहिं कायसन्नावोसिरिया हरियकाय तसकाय थावरकाय संवटिया जखडिअंजं विराहिअंतस्स मिच्छामि दुक्कडं" इति गमनागमनाचालोचनं चैत्यपरिपाटयागतैर्वा यामागतेभिक्षागतैः साधुसाध्वीजनैः सदैव विधेयम् । ततः गोचरचर्या प्रतिक्रमणार्थ कायोत्सर्ग कुर्यात् । तत्र नमस्कारं चिन्तयित्वा मुखेन नमस्कारभणन
१ बहुआ इति पाठान्तरम् ।।
आ. दि.२३
Jain Education
a
l
For Private &Personal use Only:
Naw.jainelibrary.org