________________
आचार- दुक्कड" इति पर्यन्तं कायोत्सर्गपारणचतुर्विंशतिस्तवपाठानन्तरं पठेत , ततः स्वाध्यायपाठेन नमस्कारजापेन दिनकरः शनैः स्वरेण परेषां विद्याभ्यास कारयन् निशामतिवाहयेत् , ततश्च घटिकाशेषायां रात्रौ रात्रिप्रतिक्रमणं
कुर्यात् । प्रतिकमणकायोत्सर्गप्रत्याख्यानादिविधिरावश्यकोदयादवसेयः। ततः अरुणोदये श्रीमदिन्द्रभूति. ॥१३२॥
गणधरस्तुतिपाठपूर्व प्रतिलेखनामङ्गप्रतिलेखनामुपधिप्रतिलेखनां वसतिप्रतिलेखनां च कुर्यात् , ततः स्वाध्यायं च कुर्यात् , ततो धर्मव्याख्यानं शिष्यपाठनं साध्वीपाठनं स्वयं पठनं श्राद्धश्राद्धीपाठनं धर्मशास्त्रलिखनं च कुर्यात् । ततः पादोने प्रहरे जाते पौरषीप्रतिलेखनां कुर्यात् , ततश्च तृप्तिकरणं गृहीत्वा प्राशुकजलमादाय जिनायतनेषु चतुभिः स्तुतिभिश्चैत्यवन्दनं कुर्यात् , तलश्च यहिभूमी मलमूत्रोत्सर्ग विधाय पुनर्वसतिमागच्छेत् , तत्र पुनरीर्यापथिकी प्रतिकामेत्। तथा यत उक्तम्-"सर्वत्र गमनस्यान्ते त्यागे च मलभूत्रयोः । कथान्ते क्रमणान्ते च चैत्यमध्यप्रवेशने ॥ १॥ स्थिरवस्त्रप्रयोगे च वन्दनावश्यकादिषु । शकस्तवस्य पाठे च भोजनाद्यन्तकर्मणि ॥२॥ अवग्रहणे च प्रत्याख्यानेष्वधीतिषु । षड्जीवकायसंस्पर्श संघटादिपरिग्रहे ॥३॥ कालग्रहणे च स्वाध्याये जलपाने क्रियाविधौ। सर्वत्र साधुमाध्वीनां सदैर्यापथिको मता ॥४॥ साधु साध्वीभिः सदैवैर्यापथिकीप्रतिक्रमणशीलैर्भाव्यम् , तेषां हि सर्वविरतिसामायिकमाजन्म प्रतिपन्नं नैर्याप
थिकी विना शुद्धिमेति, ततः पुनः शक्रस्तवं पठित्वा पारणमुखवस्त्रिका प्रतिलेखयेत् , तदन्ते इति कथयेत् ISI "पारावेमि भत्तपाणीयं अमुगपचक्खाणागारेण पोरसी चउविहारेण" गुरुः कथयति "जाकावि वेलातीए
॥१३२॥
Jan Education
a
l
For Private & Personal Use Only
G
w.jainelibrary.org