________________
Jain Education
रूपप्रच्छादन हेतुः ११ इति साधुसाध्वीनामुपकरणानि ॥ तत्र दण्डाश्चोपकरणवहिर्भूता अपि पशुसर्पनिवारणार्थ मुनिभिरादीयन्ते, ते च साधूनां साध्वीनां च पञ्चविधाः, सहजग्रहणे भूमेः स्कन्धपर्यन्ताः १ ग्ला नावष्टम्भे सार्धहस्तद्वयप्रमाणाः २ जलावगा हे संपूर्णकायमानात् सार्वहस्तेनाधिकाः ३ पङ्किलभूमौ प्रावृषिस्थूल देहप्रमाणाः ४ मार्गचक्रमणे स्कन्धपर्यन्ता अनम्राश्च ५ ते च वंश १ श्रीपर्णी २ वटपाद ३ क्षीरवृक्ष ४ सरलकाष्ठमयाः ५ यथालाभेन भवन्ति । ब्रह्मचारिणां च क्षुल्लकानां च प्रथमोपनीतानां च कायप्रमाणाः पलाशचन्दनमया एव दण्डा भवन्ति । व्रतविशेषेषु च ब्राह्मणक्षत्रियवैश्यानां बिल्वोदुम्बरादिकाष्ठमया यथा लोकेषु प्रसिद्धाः । साधूनां दण्डप्रोंछनं तु मयूरपिच्छमयं मुञ्जमयं वा दण्डप्रतिबद्धं भवति । तथा च धर्मोपकरणादिसंकरापनयनार्थ विज्ञेयम्, एवमुपकरणयुक्ताः साधवः साध्यः संयमं पालयन्ति, चर्मादिपरिमाणं प्रवचनाद्विज्ञेयम् । अथ साधुः साध्वी च रजनीपश्चिमयामे परमेष्टिमन्त्रं पठन् संस्तारकादुत्तिष्ठेत् ततो दण्डपोंछनेन प्रतिलिख्य पादपदानि परिमार्जयन् प्रश्रवणमात्रकं यावद्गच्छेत् । ततः प्रश्रवणमात्रकं दण्डप्रोंछनेन प्रतिलिख्य शनैर्मूत्रमुत्सृजेत्, ततश्च तथैव युक्त्या वसतेर्बहिर्गत्वा सायं प्रमार्जितस्थंडिले परिष्ठापयेत्, ततश्च तथैव संस्तारक पार्श्वमागच्छेत्, प्रतिलिख्य संस्तारकं संवृणुयात् । ततश्च काष्ठासनं पादयोंछनं वा सायं प्रतिलेखितं निवेश्य तदुपरीर्यापथिकीं प्रतिक्रामेत् शक्रस्तवं च पठेत् दुःखप्ररात्रिप्रायश्चित्तकायोत्सर्गे च कुर्यात् । तत " इच्छामि पडिकमिउं पगाम सिजाए० यावग्रो मे राईओ अइयारो कओ तस्स मिच्छामि
For Private & Personal Use Only
w.jainelibrary.org