________________
आचारदिनकरः
॥१३१॥
| तेषां जघन्य उपधिर्मुखवस्त्रिकारजोहरणाभ्यामेव, अथवा मुखवस्त्रिकारजोहरणाभ्यां सप्तविधपात्रनिर्योगेन
च उस्कृष्टो नवविध उपधिर्भवति । तेषां श्रुतं पुनस्तेषां पूर्वभवाधीतमेव जघन्यमेकादशाङ्गी, उत्कृष्टं च दशोनानि दशपूर्वाणि, तेषां लिङ्ग रजोहरणादि शासनदेवता ददाति, अथवा लिगरहिता अपि भवन्ति, ते महारण्यं गृहमिव विहरन्ति । प्रत्येकबुद्धानामिय स्थितिरिदमुपकरणम् । अथ साध्वीनामुपकरणानि यथा -चतुर्दश तान्येव स्थाविरकल्पियतिसत्कानि एकादश चान्यानि यथा-अवग्रहणांतकं १ पट्ट २ अोरुकं ३ चलणिका ४ आभ्यन्तरी ५ बाह्यनिवसनी ६ कञ्चुकं ७ उत्कक्षी ८ बैंकक्षी ९ संघाती १० स्कन्धकरणी च ११ इत्योघेन व्रतिनीनां पूर्वैस्सह पञ्चविंशतिरुपकरणानि । अथ तेषामुपयोगो यथा-अवग्रहणान्तकं गुह्यरक्षार्थ देहसङ्गेन घनमसृणवस्त्रमयं सुष्टु बद्धं धार्यते गुह्यदेहप्रमाणं १ पट्टस्तु देहप्रमाण एकः कटिप्रतिबद्धो मल्लकक्षावद्भवति । अोरुकमपि तादृशमेव ताभ्यां पट्टा?रुकाभ्यां मीलिताभ्यां कटिश्छाद्यते ३ चलनी जानुप्रमाणा अस्यूता लम्बिता च ४ आभ्यन्तरी यावदर्द्धजङ्घामन्तः परिधीयते ५ बहिर्निवसनी तु कटिदोरकेण प्रतिबद्धं धुंटापर्यन्तं धार्यते ६ कच्चुकस्तु अस्यूत एव स्तनौ छादयति ७ एवमेवोत्कक्षी दक्षिणपार्श्वप्रतिबद्धा ८ वैकक्षी कञ्चुकमौत्कक्षीं च छादयति ९संघाती चतुर्विधा दिहस्तप्रमाणोपाश्रये भवति पादपोंछनकलक्षणेत्यर्थः १० तत्र द्वे संघाहे त्रिहस्ता ग्रामे भिक्षार्थमेकैकोचारपत्रवगयोः अपसरणे तु चतुर्हस्ता निखण्डप्रच्छाBा दनी ममृणा १० स्कन्धकरणी चतुर्हस्तविस्तरा वायुवितिरक्षार्थ कुञ्जकरणी सा प्रच्छादनी रूपवतीनां
For Private & Personal Use Only
॥१३१॥
Jain Education in
al
Jainelibrary.org