SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ RECORG | जीवरक्षार्थ भोजनसंलीनतार्थ च, ये गुणाः संभोगे ते गुणाः पात्रग्रहणेपि । संभोगे यथा एकप्रणिधानकसंस्थानतल्लीनता भवति, तथैव पात्रभोजनेनानपानादिविकिरणमेकचित्ततापरोपेक्षाभावश्च भवति, इति पात्रोपयोगः । शेषाणां पात्रनिर्योगाणां ग्रहणं पात्ररक्षार्थमेव कल्पत्रयग्रहणं च वनज्वलनजलवायुनिवारणार्थ शुक्ललमध्यानार्थ च समाधिनिमित्तग्लानानां मरणे आच्छादनार्थ च, इति कल्पोपयोगः । चोलपट्टग्रहणं तु पुरुषवेदोद्योवरक्षार्थ दीर्घलिङ्गानां लिङ्गरोगिणां लज्जानिवारणार्थ च, इति चोलपट्टोपयोगः । मात्रकोपयोगः पूर्वमेवोक्तः, इह कमठशब्देन केचिचोलप, केचित्संस्तारकोत्तरपटमामनन्ति । पात्रस्थापनं केचिद्भिक्षाटनं झोलिकां केचिद्धःसत्कंप्रतिष्ठानं कथयन्ति इत्युपकरणोपयोगाः। अथ प्रत्येकयुद्धोपकरणानि-प्रथम तेषां | व्याख्यानत उपकरणानां तत्रैके स्वयंबुद्धाः एके प्रत्येकबुद्धाः, स्वयंबुद्धा द्विविधा एकेर्हन्तः परे च कैश्चिदृष्टान्तः स्वयमेव बोधिमाप्ताः अर्हतां तु चोलपट्टायुपधिश्रुतलिङ्गादि न, तदपरेषां स्वयंयुद्धानां बोध्युपधिश्रुतलिङ्गादि भवति, तेषां बोधिः पूर्वजन्मस्मरणेन, उपधिस्तु तस्य द्वादशधा-मुखवस्त्रिका रजोहरणं २ कल्पत्रयं ३ पात्रनिर्योगः १२ इति स्वयंवुद्धसाधूनां द्वादशधोपधिः । तेषां च श्रुतं पूर्वाधीतं तद्भवाधीतं च भवति, तस्य च लिङ्ग देवतापर्यति । अथ कल्पिताः सुगुरवः, स यद्यकाको विहरति ताशी वा तस्येच्छा तदा तथैव विहरति, नो चेद्गच्छवासमनुसरति च । अथ प्रत्येकबुद्धसावूनामस्यामवसपिण्यां चतुर्णा करकण्ड १ दुर्मुख २ नमि ३ नग्नकनाम्नां ४ वृषभदृष्टान्तेन जलदृष्टान्तेन वलयदृष्टान्तेन रसालद्रुमदृष्टान्तेन क्रमाबोधिरभूत् । HORARISCHE DOCTOR ___Jain Education innalal For Private & Personal Use Only Conjainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy