________________
आचारदिनकरः
॥१३॥
RRRRRRRE
गृहीते कसात्वं नीते तदनन्तरं विधीयते, तत्रापि गच्छारः प्रमाणम् । तत्र च निषद्योपर्यधोदोरकबन्धनं दशामूलादेकांगुले ततो निषद्यायाः सदण्डायाः द्वौ भागो अधो मुक्त्वा भागत्रये चोपरि शेषे मध्ये द्वितीयदोदकबन्धनं वितस्तिश्चत्वारोंगुलाश्चेति चतुरस्त्र मुखवस्त्रिकाप्रमाणं तस्य समारचनावस्त्रस्य पाली वामतो विधाय स्वतः परत्र भञ्जनेनं द्विगुणं कुर्यात् । ततः पुनस्ततोपि द्विगुणं ततस्तिर्यग्भङ्गेनाष्टगुणं कुर्यात् । मुख यस्त्रिकायाः वामपार्श्वे यहिः वस्त्रपालीधारण दशानां तु धारण चोपरि, अत्र द्वितीयोप्यादेशः मुखप्रमाणेन कपोलपृथुलतादियोगेन मुखवस्त्रिकाया आधिक्यमपि भवति न दोषस्तत्र, मागधप्रस्थप्रमाणेन सविशेषे न मात्रकप्रमाणं पूर्णप्रस्थप्रमाणेन शेषकालेषु द्रव्यग्रहणं, तदधिकेन वर्षासु द्रव्यग्रहणं, तच मात्रकं सूपेन भोज्येन भरितं गव्यूतव्यं गतः साधुरेकस्थाने भुक्त, एतत्किल मात्रकप्रमाणं चोलपट्टस्तु स्थविराणां कृते कटिपरिधेद्विगुणः, बृहत्कुक्षीणां मुनीनां कृते कटिपरिधेश्चतुर्गुणः सूक्ष्मस्थूलयोरिति विभाषा, चोलपट्टपरिधान तु नाभिजान्वोरधउपरि चतुरंगुलप्रकटीकरणं, संस्तारकोत्तरच्छयोर्दीर्घत्वं सार्धहस्तद्वयं, योरपि पृथुत्वं चतुरंगुलयुतो हस्तः।। अथ साधूपकरणानामुपयोगित्वं यथा-वस्तुन आदाननिक्षेपयोः स्थानोपवेशनशयनेषु पूर्व प्रमार्जनार्थ च रजोहरणमिति रजोहरणोपयोगः। मुखवस्त्रिका तु निरन्तरसूक्ष्मजीवनिवारणार्थ त्रसरेणुप्रमार्जनार्थ भवति, तयाच्छादितवदनस्य नासामुखमारुतेन न हन्यन्ते सूक्ष्मजीवाः, प्रमार्जनकाले च मुनिस्तया कर्णबद्धयावलम्बनेन नासां मुखं च मणद्धि, इति मुखवस्त्रिकोपयोगः । पात्रग्रहणं तु भूमिपट्टवस्त्रादिषु
SARASW ARAES
|॥१३०॥
Ruinelibrary.org
Jan Education in
For Private & Personal Use Only
I