________________
आचारदिनकरः
|१२९॥
KAROBARAGRA
पेक्षा, नचापि दृष्टदैवतश्वापदरोगाभि भवेपि परावलोकरक्षणशुभ्रषाभिलाषः, न चापि जिनकल्पिन आत्मसशस्यापि स्वपार्श्व संवासः किं पुनः परेषाम् ४ बलं च मत्तगजसिंहादिव्यालानां चक्रवर्तिकटकस्यापि न मार्गदानम् ५ इति पञ्चविधा जिनकल्पग्रहणे तुलना इति जिनकल्पिनापकरणचर्यायुक्तिः ॥ अथ स्थविरकल्पिनामुपकरणानि द्वादश तान्येव पूर्वोक्तानि यथा । पत्तं इति-पात्रं १ पात्रबन्धः २ पात्रस्थापनं ३ पात्रकेशरी ४ पटलाः ५ रजस्त्राणं ६ गुच्छकः ७ इति ससविधः पात्रनिर्योगः कल्पत्रयं द्विपटी कम्बलीरूपं १० रजोहरणं ११ मुखवस्त्रिका १२ इति द्वादशधा स एव मात्रकोत्तरपट्टाभ्यां १४ स्थविरकल्पिनां चतुर्दशधोपकरणमित्युपकरणसंख्या ।। अथोपकरणानां प्रमाणम् । पात्रस्य मध्यमस्य स्वभावेन वितस्तित्रयमङ्गुलचतुष्कं परिधिःप्रमाणमुत्सेधप्रमाणं च, ततश्चेतो हीनं जघन्यमितोधिकमुत्कृष्टम् इति काठपात्रप्रमाणम्, तथा च नालिकेरालाबुमयेषु तृप्तिकरणकटाहटकादिषु यथाप्राप्तं यथायोग्यं यथाप्रयोजनं प्रमाणं, मृत्पात्रेषु च घटकुण्डादिषु साधुसंख्यापानानगवेषणाप्रमाणं, तथा च सर्वत्र यतिपात्रे दृष्टिपसरप्रतिलेखनाकरणं शुद्धिर्गवेप्यते इत्येव संस्थानं प्रमाणं, च । यत उक्तमागमे-“जत्थ य करप्पवेसो जत्थ य सव्वस्थ दिद्विपसरो अ । तं किर मणिणो पत्तं जुग्गं सेसं पुग अजुग्गं ॥१॥ वारस बाहिं ठाणा बारसठाणा य हुंति मज्झमि । पत्तपडिलेहणाए पणवीसयमो करप्पंसो ॥२॥" पात्रबन्धप्रमाण तु । पात्रप्रमाणेन व्यतिरिक्तं कर्तव्यं यथा पात्रबन्धने ग्रन्थी दत्तो कोणी चतुर गुलौ तिष्ठतः । पात्रकस्थापनं गुच्छकश्च पात्रप्रतिलेखनं च त्रयाणां प्रमाणं
॥१२९॥
Jain Education Intel
For Private & Personal Use Only
K
ainelibrary.org