________________
ARCHARHARANAS
४ इति-मुखवस्त्रिकारजोहरणाश्यां द्विविध उपधिः १ सचैककल्पयुतस्त्रिविधः स च कल्पद्र ययुतश्चतुर्विधः ३
सच कल्पत्रययुतः पञ्चविधः ४ तथा च द्विविधो मुखवस्त्रिकारजोहरणरूपः सप्तविधपात्रनिर्योगयुतो नवधा भवति ५ त्रिनिधो रजोहरणमुखवस्त्रिकैककल्परूपः सप्तविधपात्रनिर्योंगयुतो दशधा भवति ६ चतुर्विधो मुखवस्त्रिकारजोहरणकल्पवयरूपः सप्तविधपात्रनिर्योगयुत एकादशधा भवति ७ पञ्चविधो नुखवस्त्रिकारजोहरणकल्पत्रयरूपः सप्तविधपात्रनिर्योगयुतो द्वादशधा भवति ८ आद्यमुपकरणविकल्पचतुष्कमप्रावरणानां पाणिपात्राणां जिनकल्पिनां भवति । अपरं चोपकरणविकल्पचतुष्कं सप्रावरणानां पात्रभृतां जिनकल्पिनां भवति । अथवा विशुद्धजिनकल्पिनां द्विभेहमेवोपकरणं भवति । पाणिपात्राणां रजोहरणमुखवस्त्रिकारूपं विविधमेवोपकरणं भवति । पात्रभृतां च मुखवस्त्रिकारजोहरणे सप्तविधपात्रनिर्योगश्च नवविधमुपकरणं भवति इति विशुद्धजिनकल्पिनामुपकरणविकल्पवयं, कल्पत्रयेण प्रावरणधारण जिनकल्पिनां न खलु जिनकल्पविशुद्धिं करोति । जिनकल्पतुलना तु पञ्चविधा । तवेण इति-तपसा १ सूत्रेण २ सत्त्वेन ३ एकत्वेन ४ वलेन च ५ तत्र जिनकल्पे तपः षण्मासं पानान्ने विनापि नेन्द्रियग्लानिहेतु १ सूत्रं च द्वादशाङ्गोपाठः ससूत्रः सार्थः सग्रन्थः साङ्गः सभेदः सोपाङ्गः सनियुक्तिः ससंग्रहः सव्याकरणः सनिरुक्तः सपरमार्थः सहेतुः सहठान्तः २ सत्त्वं च वज्रपातेप्याकम्पता, शक्रस्योत्तर वैक्रिये सर्वदित्ववरेप्यलोभता, रम्भायप्सरोदर्शनेप्यकामता, षण्मासोपवासेपि नानारसलाभेप्यनभिलाषः३ एकत्वं च सर्वशकचक्रवर्द्धचकिबले दृष्टेपि नान्या
Mainelibrary.org
Jain
on Into
For Private & Personal Use Only