________________
C
आचारदिनकरः
॥१२८॥
RORECASSSSSSSSS
उक्तमागमे-"कंसेसु कंसपाएसु कुंडमोएसु वा पुणो। भुंजतो असणपाणाइ आयारा परिभस्सइ ॥१॥ सीओदगसमारंभे मत्तधोयणछडुणे । जाई छन्नंति भूआई दिट्ठो तत्थ असंयमो ॥२॥ पच्छाकम्मं पुरेकम्म सिआ तत्थ न कप्पई । एअमटुं न भुजति निग्गंथा गिहिभायणे ॥३॥" अलाबुपात्रकथने नालिकेरपात्रमप्यन्तर्भवति १ पात्रबन्धः बन्धनझोलिका २ पात्रस्थापनं यस्यां झोलिकायां पात्राणि संस्थाप्य मुनयो भिक्षाटनं कुर्वन्ति तत् पात्रस्थापनं ३ पात्रकेशरी लघुरजोहरणी पात्रप्रतिलेखनार्थ युज्यते ४ पटलाः वस्त्रमयानि पात्राच्छादनार्थ भुजोपरि क्षेप्यवस्त्राणि ५ रजस्त्राणं पात्रवेष्टनकं ६ गुच्छकः पात्रबन्धस्य अधउपरि ऊर्णामयः छादनरूपः प्रतिष्ठानमिति कथ्यते । तच अधः पृथिव्यम्बुवनस्पतिसंघनिवारणाय, उपरि चातपनिवारणाय धार्यते ७ पात्रनिर्योगः गुच्छकबन्धनार्थ तृप्तिकरणबन्धनार्थ च दोरकोपकरणादि सर्वमेतत्पूर्वोक्तमपि पात्रोपकरणं सर्व पात्रनिर्योगस्यान्तर्भवति । त्रयः प्रच्छादाः पटीद्वयं तृतीया कम्बली १० रजोहरणं धर्मध्वजः ११ मुखवस्त्रिका मुखाच्छादनवस्त्रम् १२ एष द्वादशविधो जिनकल्पिनां साधूनामुपधिः । जिणकप्पिा इति०-जिनकल्पिनोपि द्विविधाः पाणिपात्रभुजः १ पात्रभुजश्च २ तौदावपि द्विद्विविकल्पो, पाणिपात्रा द्विविधाः सप्रावरणा १ अप्रावरणाश्च २ । दुगतिग इति-पाणिपात्राणामप्रावरणानां जिनकल्पिनामपकरणद्वयं त्रयं । पात्रभृतामप्रावरणानां जिनकल्पिनामुपधिः नवविधो दशविधो वा। सनावरणानां पात्रभृतां जिनकल्पिनामुपधिरेकादशविधो द्वादशविधो वा इति जिनकल्पे अष्टप्रकार उपधिभेदः। पुत्तिरय.
॥१२८॥
Jain Education in
For Private & Personal Use Only
Mainelibrary.org