SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Jain Education वसे चंदसूरदंसणं कुणति, छडे दिवसे जागरिअं जागरंति; संपत्ते बारसाहदिवसे विरए” –— इत्यादि व्यवहारकर्म भगवद्भिरप्याचीर्णमागमे निर्दिष्टं च । यतः "ववहारोवि हु बलवं जं बंदइ केवलीवि छउमत्थं । आहाकम्मं भुंजइ तो ववहारं पमाणं तु ॥ १ ॥ " लौकिकेऽपि - "चतुर्णामपि वेदानां धारको यदि पारगः । तथापि लौकिकाचारं मनसापि न लङ्घयेत् ॥ १ ॥" अत एव प्रथमं गृहस्थव्यवहारधर्माचरणाद्युपदर्श्यते । ततश्च साङ्गं यतिधर्मव्याख्यानम् । "मोहान्धकारनिर्मलयतिगृहस्थादिदर्शनविधायि । आचारदिनकराख्यं शास्त्रं प्रस्तूयते पुण्यम् ॥ १ ॥ " आदौ गृहस्थधर्मकथने षोडश संस्काराः । तद्यथा, - "गर्भाधानं १ पुंसवनं २ जन्म ३ चन्द्रार्कदर्शनम् ४ । क्षीराशनं ५ चैव षष्ठी ६ तथा च शुचिकर्म ७ च ॥ १ ॥ तथा च नामकरण ८ मन्नप्राशन ९ मेव च । कर्णवेधो १० मुण्डनं ११ च तथोपनयनं १२ परम् ॥ २ ॥ पाठारंभ १३ विवाहश्च १४ व्रतारोपो१५ ऽन्तकर्म च १६ । अमी षोडशसंस्कारा गृहिणां परिकीर्तिताः ॥३॥ ब्रह्मचर्यं ९ क्षुल्लकत्वं २ प्रब्रज्यो ३ स्थापना ४ तथा । तथा च योगोद्वहनं ५ वाचनाग्रहणं ६ तथा ॥४॥ ततश्च वाचनानुज्ञा ७ सोपाध्यायपदस्थितिः ८ । आचार्यपदयुक्तिश्च ९ प्रतिमोहनं १० तथा ॥ ५॥ तिनी व्रतदानं च ११ प्रवर्त्तिनीपदक्रमः १२ । महत्तरापदाचारो १३ दिनरात्रिस्थितिर्द्वयोः १४ ॥ ६ ॥ For Private & Personal Use Only २ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy