________________
GAGARCANCY
महत्तरापदाहीं यथा-"सिद्धान्तपारगा शान्ता कृतयोगोत्तमान्वया । चतुःषष्टिकलाज्ञात्री सर्वविद्याविशारदा ॥१॥ प्रमाणादिलक्षणादिशास्त्रज्ञा मजुभाषिणी । उदारा शुद्धशीला च पञ्चेन्द्रियजये रता ॥२॥ धर्मव्याख्याननिपुणा लब्धियुक्ता प्रयोधकृत् । समस्तोपधिसंदर्भकृताभ्यासातिधैर्ययुक् ॥३॥ दयापरा सदा नन्दा तत्त्वज्ञा बुद्धिशालिनी । गच्छानुरागिणी नीतिनिपुणा गुणभूषणा ॥४॥सबला च विहारादौ पश्चाचारपरायणा । महत्तरापदार्हा स्यादीदृशी व्रतिनी ध्रुवम् ॥५॥” इति महत्तरापदाही लक्षणम् । तत्र तिथि वारक्षलग्नप्रभृति आचार्यपदस्थापनायोग्यम् , अमारिघोषणावेदियवारादिनिरुञ्छनप्रभृति श्राद्धैर्व्यवहारार्थ विधीयते, सङ्घपूजादिमहोत्सवः सर्वोप्याचार्यपदवत् तथा प्रवर्तिनीपदयोग्या वतिनी कृतलोचा लग्नदिने प्राभातिककालग्रहणं स्वाध्यायप्रस्थापनं च कुर्यात्। ततो वतिनी चैत्ये धमांगारे वा समवसरणं त्रिः प्रदक्षिणयेत् । ततो व्रतिनी गुरोः पुरः क्षमाश्रमणपूर्व भणति "भगवन् इच्छाकारेण तुम्हे अमं पुव्वअन्जा चंदणजाइ निसेविअ महत्तरापयस्स अणुजाणावणि नंदिकड्डावणि वासक्खेवं करेह चेइआई च वंदावेह" ततो गुरुशिष्ये वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः महत्तरा गुरोः वामपार्थे तिष्ठति । श्रुतशान्त्यादिका. योत्सर्गस्तुतिपठनं पूर्ववत्, पुनः शक्रस्तवपठनं, अहणादिस्तोत्रमणनं ततो "महत्तरापय अणुजाणावणि करेमि काउस्सग्गं अन्नत्थऊ. यावदप्पाणं वो. चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवपठनं इति गुरुमहत्तरे कुरुतः । ततो गुरुरूर्वसंस्थितो नमस्कारत्रयभणनपूर्व लघुनन्दी पठति, तत्पठनानन्तरं "इमं पुण
Jain Education
For Private & Personal use on
H
ainelibrary.org